| YouTube Channel

मेमिषिता-त्री (memiSitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मिष स्पर्धायाम्”@} 2 ‘सेचने मेषतीति स्यात् स्पर्धायां मिषतीति शे।’ 3 इति देवः।
4 ‘--अयमुन्मीलनार्थोऽपि’ इति धा।
का।
5।
मेषकः-षिका, मेषकः-षिका, मिमेषिषकः-मिमिषिषकः-षिका, मेमिषकः- षिका
मेषिता-त्री, मेषयिता-त्री, मिमेषिषिता-मिमिषिषिता-त्री, मेमिषिता-त्री
इत्यादीनि रूपाणि तौदादिककिलतिवत् 6 ऊह्यानि।
7 मेषः-मेषी, 8 निमेषः- 9 निमिषः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२६४)
02
=>
(६-तुदादिः-१३५२। सक। सेट्। पर।)
03
=>
(श्लो। १७४)
04
=>
[पृष्ठम्१०२८+ २४]
05
=>
(२। ७८)
06
=>
(१९३)
07
=>
[[१। पचादिषु ‘मेष’ इति पाठात् कर्तर्यच्प्रत्यये रूपमेवम्। ‘येषां धातूनां प्रयोगे गुणादिकं दृष्टं ते धातवः पचादेराकृतिगणत्वेन तत्र पाठादूह्याः’ इति प्रक्रियास- र्वस्वम्। वस्तुतोऽत्र पचादिषु पाठो दृश्यत एवेत्यस्मिन् विषये आकृतिगणत्वेन समाधिर्नादर्तव्या। स्त्रियां जातिलक्षणे (४-१-६३) ङीषि मेषी इति भवति।]]
08
=>
[[२। ‘घञ्--निमेषः।’ इति क्षीरतरङ्गिणी। एवमेव धातुवृत्तावपि।]]
09
=>
[[३। ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इत्यत्र परिगणनानादरेण भावे घञपवाद- तया बाहुलकात् कप्रत्यये निमिषः, आमिषम् इत्यादयोऽपि साधवः। एवमेव निमेष इत्यपि बाहुलकादेव, यतोऽयं कप्रत्ययो घञपवादस्ततोऽत्रैव घञोऽप्रसक्ते- रिति ज्ञेयम्।]]