| YouTube Channel

मेमिदकः-दिका (memidakaH-dikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ञि मिदा स्नेहने”@} 2 ‘मेदते मेद्यतीत्येते स्नेहने, मिन्दयेण्णिचि।’ 3 इति देवः।
मेदकः-दिका, मेदकः-दिका, मिमेदिषकः-मिमिदिषकः-षिका, मेमिदकः-दिका
मेदिता-त्री, मेदयिता-त्री, मिमेदिषिता-मिमिदिषिता-त्री, मेमिदिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्ष्विद्यतिवत् 4 ज्ञेयानि।
शतरि- 5 प्रमेद्यन्- 6 न्ती, मेदिष्यन्-न्ती-ती, इति रूपाणि भवन्त्यस्येति विशेषः।
7
प्रासङ्गिक्यः
01
=>
(१२५६)
02
=>
(४-दिवादिः-१२४३। सक। सेट्। पर।)
03
=>
(श्लो। १०४)
04
=>
(३२७)
05
=>
[[८। शतरि, ‘दिवादिभ्यः--’ (३-१-६९) इति विकरणप्रत्यये श्यनि, तस्यापित्सार्व धातुकत्वेन ङिद्वद्भावाद् अङ्गस्य गुणनिषेधे प्राप्ते सति, ‘मिदेर्गुणः’ (७-३-८६)- इति गुणो विधीयते, तेन रूपमेवमिति ज्ञेयम्।]]
06
=>
[[ड्। ‘नभ्यांस्तुभ्य विभो जयेति नुवते क्लिद्यन् प्रमेद्यद्रुजम्--।।’ धा। का। २। ६७।]]
07
=>
[पृष्ठम्१०२५+ ३३]
1 {@“मिदृ मेधाहिंसनयोः”@} 2 ‘ऋदितो मेदते मेदेन्मेधाहिंसनयोर्द्वयोः।।’ 3 इति देवः।
क्षीरस्वामी तु ‘मिथृ--’ इति तवर्गद्वितीयान्तं पपाठ।
‘षिद्भिदादिभ्योऽङू’ 4 इत्यत्र न्यासकारस्तु ‘मिधृ--’ इति तवर्गचतुर्थान्तं पपाठ-- मेधाशब्दनिष्पादनार्थम्।
दैव-पुरुषकार-दुर्ग-मा।
धा।
वृत्ति-सिद्धान्तकौमु- द्याद्यनुसारेण तवर्गतृतीयान्तपाठ एव प्रामाणिक इति कृत्वा अस्माभिरपि विलिख्यते।
मेदकः-दिका, मेदकः-दिका, मिमेदिषकः-मिमिदिषकः-षिका, मेमिदकः-दिका
मेदिता-त्री, मेदयिता-त्री, मिमेदिषिता-मिमिदिषिता-त्री, मेमिदिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककेटतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१२५८)
02
=>
(१-भ्वादिः-८६८। सक। सेट्। उभ।)
03
=>
(श्लो। १०४)
04
=>
(३-३-१०४)
05
=>
(१९०)