| YouTube Channel

मेमिथकः- (memithakaH-)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मिथृ मेधाहिंसनयोः”@} 2 उत्तरत्र विलेखिष्यमाणस्य मेदृधातोः क्षीरस्वामिसम्मतः पाठ एवम्।
मेथकः-थिका, मेथकः-थिका, मिमिथिषकः-मिमेथिषकः-षिका, मेमिथकः- थिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककेटतिवत् 3 ज्ञेयानि।
पचाद्यचि--मेथः।
स्त्रियां गौरादित्वात् ङीषि मेथी = पशूनां पाशविशेषः।
मेथिः इत्यपि तस्य क्वचिन्नाम।
‘मेथीबद्धोऽपि हि भ्राम्यन् घासग्रासं करोति गौः।’ 4 इति क्षीरस्वामिना उद्धृतम्।
प्रासङ्गिक्यः
01
=>
(१२५४)
02
=>
(१-भ्वादिः-८६८। सक। सेट्। उभ।)
03
=>
(१९०)
04
=>
(सुभाषितावलिः २९५८)