| YouTube Channel

मेधृ (medhR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मेध्
मूलधातुः:
मेधृ
धात्वर्थः:
मेधा-हिंसनयोः, सङ्गमे
गणः:
भ्वादिः
कर्मकत्वं:
हिंसने सकर्मकः, मेधायाम् अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
मेधति-ते
अनुबन्धादिविशेषः:
ऋदित्
धातुप्रदीपः
Sanskrit
मेधृँ मेधृ सङ्गमे
- मेधति मेधते मेधा मेध्यम् मेधिः सर्वधातुभ्य इः ।। 873 ।।
क्षीरतरङ्गिणी
Sanskrit
मेधृँ मेधृ संगमे
- चकारान्मेधाहिंसनयोः मेधते, मेधति, अमिमेधत् मेधा मेध्यम् गृहमेधी अश्वमेधः मेधिः 841
धातुवृत्तिः
Sanskrit
मेधृँ मेधृ (अर्थः) सङ्गमे
( मेधति मिमेध मेधिता मेधिष्यते इत्यादि ) मेधृ सेचने भिदादित्वादङ् गृहमेधो देवतास्य ( गृहमेध्यम् गृहमेधीयम् ) "द्यावापृथिवी'' इत्यादिना छयतौ 856
कृदन्तरूपमाला
Sanskrit
1 {@“मेधृ सङ्गमे च”@} 2 अत्र चकारात् धातुपाठे पूर्वधातुगतं मेधाहिंसनरूपमर्थद्वयं विवक्षितम्।
भोजराजस्तु ‘यतोऽङ्विधौ मेधाशब्दसाधनार्थं मिधृधातोर्गुणं विधत्ते’ तेन ज्ञायते--नास्यायं धातुः संमत इति।
कौमाराश्चात्रैवानुकूलाः।
स्पष्टमिदं प्रकृतस्थले मा।
धा।
वृत्तौ।
मेधकः-धिका, मेधकः-धिका, मिमेधिषकः-षिका, मेमेधकः-धिका
मेधिता-त्री, मेधयिता-त्री, मिमेधिषिता-त्री, मेमेधिता-त्री
इत्यादीनि समस्तान्यपि रूपाणि भौवादिककेपतिवत् 3 ज्ञेयानि।
4 मेवा, 5 गृहमेधी, 6 अश्वमेधः, 7 मेधिः, 8 मेध्यः-9, 10 प्रमेधितः इतीमानि धातोरस्य विशेषरूपाणीति ज्ञेयम्।
11
प्रासङ्गिक्यः
01
=>
(१३१६)
02
=>
(१-भ्वादिः-८७०। सक। सेट्। उभ।)
03
=>
(२६१)
04
=>
[[२। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां भावादौ अकारः। मेधा = बुद्धिः।]]
05
=>
[[३। गृहान् = दारान् मेधति = सङ्गच्छत इति गृहमेधी = गृहस्थः। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिप्रत्ययः।]]
06
=>
[[४। अश्वं मेधयति = हिंसयतीत्यर्थे ण्यन्तात्, अन्तर्भावितण्यन्तात् शुद्धाद्वा धातोः ‘कर्मण्यण्’ (३-२-१) इत्यण्प्रत्यये रूपमेवम्। अश्वमेधः = तन्नामको यज्ञविशेषः। एवमेघ पुरुषमेधः इत्यत्रापि ज्ञेयम्। पितृमेधः इत्यत्र तु पितृभिः सह मेधः (मेधति = संगच्छते इत्यर्थे) इति पचाद्यजन्तेन समासो ज्ञेयः।]]
07
=>
[[५। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति भावे स्त्रियाम् इक्प्रत्यये रूपम्। मेधिः = पशूनां बन्धविशेषे साधनीभूतो रज्जुविशेषः।]]
08
=>
[[६। कर्मणि ण्यत्प्रत्यये रूपमेवम्। मेध्यः = यज्ञार्ह इत्यर्थः।]]
09
=>
(पशुः)
10
=>
[[आ। ‘नित्यं प्रमोहामिदितोरुमेदैः प्रमेधिता सद्भिरनिद्यमानैः।’ धा। का। २। २६।]]
11
=>
[पृष्ठम्१०५८+ २३]