| YouTube Channel

मेदः (medaH)

 
Apte
English
मेदः [mēdḥ], 1 Fat.
A particular mixed tribe
cf.
Ms.*
1.36
Mb.
* 13.22.22 (com. मेदा गोमहिष्यादीनां मृतानां मांसमश्नन्तः).
N.
of a serpent-demon.
N.
of a plant (अलंबुषा). -दा A root resembling ginger (one of the eight principal medicines).
Comp.
-कृत्
n.
the flesh.-जम् a species of bdellium. -भिल्लः
N.
of a degraded tribe.
Apte 1890
English
मेदः 1 Fat.
2 A particular mixed trible.
3 N. of a serpent-demon.
4 N. of a plant (अलंबुषा).
दा A root resembling ginger (one of the eight principal medicines.)
Comp.
जं a species of bdellium.
भिल्लः N. of a degraded tribe.
Monier Williams Cologne
English
मेदः in comp. for मेदस्.
Hindi
Hindi
वसा (ब्रूकलिन)
Apte Hindi
Hindi
मेदः
पुं*
- मेदते स्निह्यति - मिद् + अच्
चर्बी
मेदः
पुं*
- -
एक विशेष प्रकार की वर्णसंकर जाति
मेदः
पुं*
- -
एक नाग राक्षस का नाम
Wordnet
Sanskrit
Synonyms:
मज्जा, मेदः, अस्थिजः, अस्थिसारः, अस्थिस्नेहः, अस्थिस्नेहकः
noun
अस्थिगुहासु वर्तमानः रसः।
"मज्जा रक्तकणिकायाः निर्मितिं करोति।"
Synonyms:
मेदः, वपा, वसा, अस्थिकरः
noun
प्राणिनां शरीरे वर्तमानः मांसप्रभवधातुविशेषः।
"मेदसः कारणात् शरीरं स्थूलं भवति।"
वैजयन्तीकोषः
Sanskrit
Word: मेदः
Root: मेद
Gender: पुं
Number: all
अर्थः
Meaning(s):
Son of a Vaidēhaka and a married Niṣādī woman
Shloka(s):
3|5|35|1 निषादी मेदमन्ध्रं तु सैव चेन्नान्यपूर्विका। (भूमिकाण्डः/मनुष्याध्यायः)
Synonym(s):
3|5|35|1 मेदः (मेद) (पुं) Son of a Vaidēhaka and a married Niṣādī woman
Related word(s):
isa_k वैदेहपुत्राः स्युः नानायोषित्समुद्भवाः
शब्दकल्पद्रुमः
Sanskrit
मेदः, [स्]
क्ली,
(मेद्यति स्निह्यतीति मिद् +“सर्व्वधातुभ्योऽसुन् ।” उणा० १८८ इतिअसुन् ।) मांसप्रभवधातुविशेषः तत्पर्य्यायः ।वपा वसा इत्यमरः ६४
मेदः ।अकारान्त इति भरतः
अस्य गुणाः वात-नाशित्वम् बलपित्तकफदातृत्वञ्च इति राज-वल्लभः
अथ मेदसः स्वरूपमाह ।“यन्मांसं स्वाग्निना पक्वं तन्मेद इति कथ्यते ।तदतीव गुरु स्निग्धं बलकार्य्यतिबृंहणम्
”अथ मेदसः स्थानमाह ।“मेदो हि सर्व्वभूतानामुदरेष्वस्थिषु स्थितम् ।अतएवोदरे वृद्धिः प्रायो मेदस्विनो भवेत्
”इति भावप्रकाशः
रोगविशेषः तत्र मेदसो विप्रकृष्टं निदान-माह ।“अव्यायामदिवास्वप्नश्लेष्मलाहारसेविनः ।मधुरोऽन्नरसः प्रायः स्नेहान्मेदो विवर्द्धयेत्
”अन्नरसः आमद्रवः तथा सुश्रुतः ।आमद्रवान्नरसो मधुरश्च भवतीति मेदसो-ऽतिप्रवृद्धौ वैगुण्यमाह ।“मेदसावृतमार्गत्वात् पुष्यन्त्यन्ये धातवः ।मेदस्तु चीयते तस्मादशक्तः सर्व्वकर्म्मसु
”अन्ये धातवः अस्थ्यादयः शुक्रान्ताः पुष्यन्तिन पुष्टा भवन्ति चीयते सञ्चितं भवति वर्द्धतइति यावत् तस्मात् मेदस्वी सर्व्वकर्म्मसुअशक्तः स्यात् मेदसः सौकुमार्य्यात् अपरा-नपि दोषानाह ।“क्षुद्रश्वासतृषामोहस्वप्नक्रन्थनसादनैः ।युक्तः क्षुत्स्वेददौर्गन्धैरल्पप्राणोऽल्पमैथुनः ।मेदसः स्वेददौर्गन्ध्याज्जायन्ते जन्तवो नरः
”क्रन्थनं उच्छ्वासावरोधः कण्ठेन घुर्घुर इत्यन्ये ।जन्तवः क्रिमयः मेदसः स्थानमाह ।“मेदस्तु सर्व्वभूतानामुदरेष्वस्थिषु स्थितम् ।अतएवोदरे वृद्धिः प्रायो मेदस्विनो भवेत्
”मेदस्विनोऽपि वृद्धौ हेतुमाह ।“मेदसावृतमांर्गत्वाद्बायुः कोष्ठे विशेषतः ।चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि
तस्मात् शीघ्रन्तु जरयत्याहारञ्चापि काङ्क्षति ।विकारान् सोऽश्नुते घोरान् कांश्चित् काल-व्यतिक्रमात्
”सन्धुक्षयति प्रदीपयति मेदस्वी आहारंशीघ्रं जरयति पुनर्भोक्तुं काङ्क्षति दीप्ताग्निःकालव्यतिक्रमात् भोजनकालातिक्रमात् कां-श्चिद्विकरान् वातपित्तकरान् घोरान् अश्नुतेप्राप्नोति एते वातपित्ते मेदसावरुद्धे विशेषा-दुपद्रवकरे इत्याह ।“एतावुपद्रवकरौ विशेषात् पित्तमारुतौ ।एतौ हि दहतः स्थूलं वनं दावानलो यथा
”एतौ पित्तमारुतौ मेदसा रुद्धमार्गत्वात् कोष्ठ-मध्ये प्रवृद्धौ सन्तौ विशेषादुपद्रवकरौ दहतःनाशयेताम् मेदसोऽतिवृद्धेर्विनाशहेतुत्वमाह ।“मेदस्यतीवसंवृद्धे सहसैवानिलादयः ।विकारान् दारुणान् कृत्वा नाशन्त्या जीवि-तम्
”विकारान् प्रमेहपिडकज्वरभगन्दरविद्रधिवात-रोगाणामन्यतमान् अतिस्थूलतया वैगुण्य-माह ।“अतिस्थूलेषु संदृष्टा विसर्पाः सभगन्दराः ।ज्वरातीसारमेहार्शःश्लीपदा यषिकादयः
”अतिस्थूलस्य लक्षणमाह ।“मेदो मांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः ।अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते
”अयथोपचयोत्साहः यथा उपचयो मांसोप-चयः उत्साहो बलञ्च यस्य सः
*
*
अथमेदस्य चिकित्सा ।“पुराणाः शालयो मुद्गाः कुलत्थोद्दालकोद्रवाः ।लेखना वस्तयश्चापि सेव्या मेदस्विना सदा
श्रमचिन्ताव्यवायाध्वक्षौद्रजागरणप्रियः ।हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजनः
क्षारं वातारिपत्रस्य हिङ्गुयुक्तं पिबेन्नरः ।सहितं भक्तमण्डेन मेदोवृद्धिनिवृत्तये
गुडूचीत्रिफलाक्वाथः पीतो मेदोहरः स्मृतः ।गुडूचीत्रिफलाक्वाथस्तथा लोहरजोयुतम् ।क्षौद्रेण त्रिफलाक्वाथः पीतो मेदहरः परः
प्रातर्मधुयुतं वारि सेवितं स्थौल्यनाशनम् ।उष्णमन्नस्य मण्डं वा पिबेत् कृशतनुर्भवेत्
व्योषाग्नित्रिफलामुस्तविडङ्गैर्गुग्गुलुं समम् ।स्वादेत् सर्व्वान् जयेद्रोगान्मेदःश्लेष्मामवातजान्
पिप्पली मधुना सेव्या मेदःकफविनाशिनी
धत्तूरपत्रस्वरसेन गाढ-मुद्बर्त्तनं स्थौल्यहरं प्रदिष्टम्
वासादलरसो लेपाच्छङ्खचूर्णेन संयुतः ।विल्वपत्ररसो वापि देहदौर्गन्ध्यनाशनः
निम्बूपत्रस्वरसः प्रक्षितकक्षादियोजितं जयति ।दग्धहरिद्रोद्बर्त्तनमचिराच्चिरदेहदौर्गन्ध्यम्
शिरीषलामज्जकहेमलोध्रै-स्त्वग्दोषसंस्वेदहरः प्रघर्षः ।शरीरदौर्गन्ध्यहरः प्रदेहःपत्राम्बुलोध्राभयचन्दनानाम्
”शिरीषस्यात्र पत्रं ग्राह्यं व्यवहारात् लाम-ज्जकं सुगन्धितृणविशेषस्तदलाभे उशीरंग्राह्यम् हेम नागकेशरम् अम्बु बालकम् ।अभयं उशीरम् ।“हरीतकीं तु संपिष्य देहमुद्बर्त्तनं नरः ।पश्चात् स्नानं प्रकुर्व्वीत देहस्वेदोपशान्तये
वकुलस्य दलैः सम्यग्वारिणा परिपेषितैः ।देहमुद्बर्त्तयेत् पश्चाद्धरीतक्या सुपिष्टया
भूय उद्बर्त्तनं कुर्य्यात् पश्चात् स्नानं समाचरेत् ।प्रस्वेदान् मुच्यते शीघ्रं मेदोवृद्धिसमुद्भवात्
”इति मेदोऽधिकारः
इति भावप्रकाशः
(तथास्य विशेषः यथा, --“मेदः स्नेहस्वेदौ दृढत्वं पुष्टिमस्थ्नाञ्च
”अस्य क्षीणलक्षणं यथा, --“मेदः क्षये प्लीहाभिवृद्धिः सन्धिशून्यता रौक्ष्यंमेदुरमांसप्रार्थना ।” अस्यातिवृद्धिलक्षणंयथा, --“मेदः स्निग्धाङ्गतामुदरपार्श्ववृद्धिं कासश्वासा-दीन् दौर्गन्ध्यञ्च ।”“पूर्व्वः पूर्व्वोऽतिवृद्धत्वाद्वर्द्धयेद्धि परं परम् ।तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम्
”“क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक् ।तावद्यावदरोगः स्यान्नरो रोगसमन्वितः
”इति सुश्रुते सूत्रस्थाने १५ अध्यायः
“तृतीया मेदोधरा नाम मेदो हि सर्व्वभूताना-मुदरस्थमन्वस्थिषु महत्सु मज्जा भवति
”इति तत्रैव शारीरस्थाने अध्याये
)
मेदः,
पुं,
(मेद्यति स्निह्यतीति मिद् + अच् ।)वपा इति शब्दचन्द्रिका
“तृष्णाकण्डुकृमिहरो मलघ्नो मेदकुष्ठहा
”इति भरतधृतशालिहोत्रः
)म्लेच्छजातिविशेषः इति जटाधरः
अल-म्बुषा इति राजनिर्घण्टः
(ऐरावतकुलजोनागविशेषः यथा, महाभारते ५७ ११ ।“विहङ्गः शरभो मेदः प्रमोदः संहतापनः ।ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्
”)