| YouTube Channel

मेढा-मेढ्री (meDhA-meDhrI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मिह सेचने”@} 2 मेहकः-हिका, मेहकः-हिका, मिमिक्षकः-क्षिका, मेमिहकः-हिका
मेढा- 3 मेढ्री, मेहयिता-त्री, मिमिक्षिता-त्री, मेमिहिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना आदादिकदेग्धिवत् 4 ज्ञेयानि।
5 मेघः, 6 मेढ्रम्, 7 मीढ्वान्, 8 मेहः, 9 मिहिरः इमानि रूपाणि अस्य धातोः विशेषेण संभवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२६६)
02
=>
(१-भ्वादिः-९९२। सक। अनि। पर।)
03
=>
[पृष्ठम्१०२९+ २८]
04
=>
(८४२)
05
=>
[[१। धातोः इगुपधत्वेऽपि पचादिषु (३-१-१३४) पाठात् अच्प्रत्यये, गुणे, ‘न्यङ्क्वादीनां च’ (७-३-५३) इत्यत्र गणे पाठात् हकारस्य कुत्वेन घकारे मेघ इति सिद्ध्यति। मेहति = वर्षति इति मेघः।]]
06
=>
[[२। ‘दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे’ (३-२-१८२) इति करणे ष्ट्रन्प्रत्यये गुणे, ‘हो ढः’ (८-२-३१) इति धातुहकारस्य ढत्वे, धत्वष्टुत्वढलोपेषु प्रवृत्तेषु ‘पर्जन्यवल्लक्षणं प्रवर्तते’ (परि। १२१) इति न्यायेन दीर्घे रूपमेवम् मिह्यतेऽनेनेति मेढ्रम्।]]
07
=>
[[३। धातोरस्मात् कर्तरि लिटः क्वसौ वेदे भाषायां चाविशेषेण ‘दाश्वान् साह्वान् मीढ्वां- श्च’ (६-१-१२) इति निपातनात्, द्वित्वाभावः, अनिट्त्वम्, ढत्वम्, उपधादीर्घ- श्चेति ज्ञेयम्। ‘मीढ्वस्तोकाय तनयाय मृडय--’ इति वैदिकः प्रयोगः।]]
08
=>
[[४। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि गुणे रूपमेवम्। मेहः = मधुमेहः, रोगविशेषः।]]
09
=>
[[५। मेहति, मेहयति वाऽयमिति मिहिरः = सूर्यः। ‘इषिमदिमुदिखिदिच्छिदिभिदि- मन्दिचन्दितिमिमिहि--’ (द। उ। ८-२६) इत्यादिना किरच्प्रत्यये रूपमेवम्।]]