| YouTube Channel

मेचकं (mecakaM)

 
शब्दकल्पद्रुमः
Sanskrit
मेचकं,
क्ली,
(मचति वर्णान्तरेण मिश्रीभवतीति ।मच् + “कृञादिभ्यः संज्ञायां वुन् ।” उणा० ।३५ इति वुन् ततः “पचिमच्योरिच्च ।” उणा०५ ३७ इति इत्वे लघूपधगुणः यद्वा, मच मचिकल्कने + अकन् मचि परिमुचां नाम्नीत्येत्वम् ।मेचकः कृष्णनीलः स्यादतसीपुष्पसन्निभः इतिशब्दार्णवः व्युत्पत्तिस्तु मचति मिश्रीभवतिवर्णान्तरेण इति भरतः इत्यमरटीकायां रघु-नाथचक्रवर्त्ती ।) श्रोतोऽञ्जनम् अन्धकारः ।इति मेदिनी के, १४०
नीलाञ्जनम् इतिराजनिर्घण्टः
(यथा, --“मेचकं मर्द्दनाञ्जनपिण्डवदीषत्कृष्णरूक्षम् ।”इति माधवकरकृतरुग्विनिश्चयव्याख्यानेऽतीसा-राधिकारे विजयरक्षितः
)