मेङ् (meG)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit मे
मेङ्
प्रत्यर्पणे, विनिमये च
भ्वादिः
सकर्मकः
अनिट्
आत्मनेपदी
मयते
एकारान्तः
धातुप्रदीपः
Sanskritमेङ् प्रणिदाने
- अपमयते । अपमित्य याचते, अपमाय याचते । अपमीयते । मितिः । मितम् ।। 969 ।।
क्षीरतरङ्गिणी
Sanskritमेङ् प्रणिदाने
- (अर्थविवरणम्) प्रणिदानं प्रत्यर्पणम्
अपमयते, प्रणिमयते सनि मीमाघु (7424) इति मित्सते ह्वावामश्च (322) इत्यण्-धान्यमायः उदीचां माङो व्यतिहारे (तु0 3419) क्त्वा-अपमित्य याचते, याचित्वा अपमयते, मयतेरिदन्यतरस्याम् (6470), पक्षे अपमाय मापोरुरी च (दश0 उ0 1157) मेरुः, सुमेरुः माछाससिसूभ्यो यः (तु0 उ0 4109) माया चन्द्रे मो ङित् (तु0उ04228) इत्यसुन्-चन्द्रमाः अदादौ मा माने (255) माति ह्वादौ माङ् माने (36) मिमीते 932
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritमेङ् (अर्थः) प्रणिदाने
(अर्थविवरणम्) प्रणिदानं विनिमयः
प्रत्यर्पणमित्यपरे (अपमयते प्रणिमयते) "नेर्गद''इति णत्वं, तत्र माङ्मेङोर्ग्रहणमिति वृत्तिः मेङआत्वाभावेऽपि णत्वमिति हरदत्तः (ममे ममिषे) "आतो लोपः'' इत्याल्लोपः ( मातासे मास्यते मयताम् अमयत मयेत मासीष्ट प्रण्यमास्त ) अड्व्यवायेऽपि णत्वमिष्यते (मित्सते) "सनि मीमा'' इतीस् अभ्यासस्य लोपः "सः स्यार्द्धधातुके'' इति तत्त्वं, ( मेमीयते ) "घुमास्था'' इतीत्वम् ( मामाति मामीतः ) "ई हल्यघोः'' इतीत्वं हलादौ स्थितम् अजादौ तु "श्नाभ्यस्तयोः'' इत्याल्लोपः ( माययति अमीमयत् मितम् ) "द्यतिस्यतिमेति'' इत्वम् अपमित्य याचते अपमाय याचते "न ल्यपि'' इतीत्वनिषेधः "मयतेरिदन्यतरस्याम्'' इति पक्षे इकारः "उदीचां माङो व्यतीहारे'' इति व्यतिहारार्थादस्मात् क्त्वा अपूर्वकालार्थं वचनम् याचित्वा ह्यसावपमयते अत्रोदीचां ग्रहणात् यथाप्राप्तमपि भवति याचित्वापमयत इति, अन्यथा येन नाप्राप्तिन्यायेन अपूर्वकालात् क्तवो बाधः स्यात् अपमित्यनिवृत्तमापमित्यकम् "अपमित्ययाचिताभ्यां कक्कनौ'' इति निर्वृत्ते यथासंख्यादस्मात् कक्, धान्यमायः "ह्वावामश्च'' इति कर्मण्युपपदे अणि युक् अत्र वृत्तौ माङ् मानइत्युपादाय "गामादाग्रहणेष्वविशेषः" इति मेङोऽप्युपलक्षणमिति हरदत्तः 942
कृदन्तरूपमाला
Sanskrit1 {@“मेङ् प्रणिदाने”@} 2 ‘मिमीते मायते माने, माति तत्रैव शब्लुकि।
मयते प्रणिदानेऽर्थे…।।’ 3 इति देवः।
“प्रणिदानम् = विनिमयः।
‘प्रत्यर्पणम्’ इत्यपरे।” इति मा।
धा।
वृत्तिः।
“--प्रतिदाने-इति काशकृत्स्नः।
तथैव कातन्त्रे, चान्द्रे च।
‘प्रणिधाने’ इति पाठान्तरम्।” इति क्षी।
टीका।
मायकः-यिका, मापकः-पिका, मित्सकः-त्सिका, मेमीयकः-यिका
माता- मात्री, माययिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकमातिवत् 4 ज्ञेयानि।
शानचि- 5 मयमानः- प्रणिप्रयमानः, 6 अपमित्य, 7 अपमाय वा याचते।
याचित्वा अपमयते।
8 9 धान्यमायः, इतीमानि रूपाण्यस्माद् भवन्तीति ज्ञेयम्।
01 (१३१४)
02 (१-भ्वादिः-९६१। सक। अनि। आत्म।)
03 (श्लो। ९)
04 (१२४०)
05 [[४। शानचि, शपि अयादेशे च रूपमेवम्। ‘--अशिति’ (६-१-४५) इत्युक्तत्वात् आत्वं नेति ज्ञेयम्। प्रणिमयमानः इत्यत्र ‘नेर्गदनदपतपदघुमा--’ (८-४-१७) इत्यादिना नेर्णत्वम्।]]
06 [[५। अपपूर्वकादस्मात्, ‘उदीचां माङो व्यतीहारे’ (३-४-१९) इति क्त्वाप्रत्यये, तस्य सामासिके ल्यपि, ‘मयतेरिदन्यतरस्याम्’ (६-४-७०) इति इकारेऽन्तादेशे च अपमित्य इति रूपम्। पक्षे अपमाय इति च। अपूर्वकालार्थं वचनमिदम्। अत्र (३-४-१९) ‘उदीचाम्’ इत्युक्तत्वात्, प्राचां मते तु ‘याचित्वाऽपमयते’ इत्यपि प्रयोगः साधुः। ‘उदीचाम्--’ (३-४-१९) इति सूत्रे ‘माङ्’ इति, मेङः कृतात्वस्य निर्देश इति ‘दाधा ध्वदाप्’ (१-१-२०) सूत्रे भाष्ये स्पष्टम्।]]
07 [[आ। ‘अपमित्य तपोवित्तैरस्या भागं भगीरथः।’ सुभद्राहरणे।]]
08 [पृष्ठम्१०५७+ २८]
09 [[१। कर्मणि उपपदे आदन्तलक्षणं कप्रत्ययं बाधित्वा, ‘ह्वावामश्च’ (३-२-२) इत्यण्। आत्वे कृते, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
