| YouTube Channel

मेघज्योतिः (meghajyotiH)

 
शब्दकल्पद्रुमः
Sanskrit
मेघज्योतिः, [स्]
पुं,
(मेघस्य ज्योतिरग्निर्मेघा-दुत्पन्नो ज्योतिर्वा ।) वज्राग्निः तत्पर्य्यायः ।इरम्मदः इत्यमरः १०
मेघस्य ज्योति-रग्निर्मेघज्योतिः ज्योतिरग्नौ समाख्यातंज्योतिश्चन्द्रो निगद्यते इति रन्तिः
इरयाजलेन माद्यति दीप्यते इति इरग्मदः मेघाग्निर्हिजलेनैव दीप्यते मदीभिर्यञि हर्षे तॄ भॄ वॄ दॄजीति खः खित्यव्याजिति मन्स्वौ अन्योन्य-संघट्टेन मेघान्निःसृत्य यज्ज्योतिर्वृक्षादौ पततिस इरम्मदः मेघ इत्युपलक्षणं तेन वातजो-ऽपीरम्मदः सोऽपि हि इरया जलेन माद्यतीतिकौमुदी मेघाग्न्यादिरिरम्मद इति शब्दार्णवः ।इति तट्टीकायां भरतः