| YouTube Channel

मेक्षणं (mekSaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
मेक्षणं,
क्ली,
यज्ञीयपात्रविशेषः (यथा, आश्व-लायनश्रौतसूत्रे १२ ।“मेक्षणेनादायावदानसम्पदा जुहुयात्
”)यथा, मेक्षणादीनाह छन्दोगपरिशिष्टम् ।“इध्मजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत् ।वृत्तं वार्क्षञ्च पृथ्वग्रमवदानक्रियाक्षमम्
”इध्मार्द्धप्रमाणम् ।प्रादेशद्बयमिध्मस्य प्रमाणं परिकल्पितमिति ।तदर्द्धम् एषैव दर्व्वी विशेषस्तु महास्रुवे ।“दर्व्वी द्व्यङ्गुलपृथ्वग्रा तुरीयेण तु मेक्षणम् ।मुषलोदूखले वार्क्षे स्वायते सुदृढे तथा
”इति संस्कारतत्त्वम्