| YouTube Channel

मृषु (mRSu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मृष्
मूलधातुः:
मृषु
धात्वर्थः:
सेचने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मर्षति
अनुबन्धादिविशेषः:
उदित्
क्षीरतरङ्गिणी
Sanskrit
मृषुँ मृषु सहने
- मर्षति मृष्ट्वा, मर्षित्वा मृषस्तितिक्षायाम् (1220) इत्यस्याकित्त्वं नास्ति, तत्र क्त्वा सेट् (1218) इत्यनुवृत्तेः- मृष्टम् दिवादौ (454) मृष्यति अपमृषितं वाक्यमाह भाषायां शासियुधि (33130 वा0) इति युच्- दुर्मर्षणः
कृदन्तरूपमाला
Sanskrit
1 {@“मृषु सेचने सहने च”@} 2 ‘--हिंसाक्लेशदैन्येषु इत्येके’ इति धा।
का।
3।
‘-- स्नेहने’ इति देवसम्मतः पाठः 4 इति ज्ञायते।
‘मृष्यते मृष्यतीति स्यात्, स्नेहने शपि मर्षति।।’ 5 इति देवः।
मर्षकः-र्षिका, मर्षकः-र्षिका, मिमर्षिषकः-षिका, मरीमृषकः-षिका
मर्षिता-त्री, मर्षयिता-त्री, मिमर्षिषिता-त्री, मरीमृषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकपर्षतिवत् 6 ज्ञेयानि।
युचि-मर्षणः, 7 मृष्टम्-ष्टः-मृष्टवान्, 8 मर्षित्वा-मृष्ट्वा, इमानि रूपाण्यधिकानीति विशेषः।
9
प्रासङ्गिक्यः
01
=>
(१३१२)
02
=>
(१-भ्वादिः-७०७। सक। सेट्। पर।)
03
=>
(१। ८८)
04
=>
(श्लो। १७३)
05
=>
(श्लो। १७३)
06
=>
(१०५४)
07
=>
[[३। उदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायाम् ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः। ष्टुत्वं च।]]
08
=>
[[४। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणः। तेन रूपद्वयम्।]]
09
=>
[पृष्ठम्१०५६+ ३२]