| YouTube Channel

मृषार्थकं (mRSArthakaM)

 
शब्दकल्पद्रुमः
Sanskrit
मृषार्थकं,
क्ली,
(मृषा अर्थोऽस्य बहुब्रीहौ कप् ।)अत्यन्तासम्भवार्थबाक्यम् तत्पर्य्यायः आह-तम् इत्यमरः २१ अत्यन्ता-सम्भवार्थे वचसि आहन्यते स्म आहतं क्तः ।मृषा मिथ्या अर्थोऽस्य मृषार्थकं इह मृषार्थंयत् सर्व्वथा घटते यथा, --“एष बन्ध्यासुतो याति खपुष्पकृतशेखरः ।कूर्म्मलोमतनूत्राणः शशशृङ्गधनुर्द्धर इति
यावज्जीवमहं मौनी ब्रह्मचारी पिता ममेति ।अस्य चायं भेदः मौनित्वं ब्रह्मचारित्वं अन्यत्रसिद्धमेव बन्ध्यासुतत्वं खपुष्पत्वञ्चान्यत्रासिद्ध-मिति इति भरतः