| YouTube Channel

मृष (mRSa)

 
Wilson
English
मृष r. 1st and 10th cls. (मर्षति-ते मर्षयति-ते) and 4th cl.
(मृष्यति-ते) To bear, to suffer, to endure patiently. (उ) मृषु r.
1st cl. (मर्षति) To sprinkle.
With आङ्, To be angry.
With वि, To be distressed, to bear hardly.
Shabdartha Kaustubha
Kannada
मृष - तितिक्षायाम् (दिवा० उभ० सक० से०) मृष्यति-ते मृष्यतु-मृष्यतात्
कन्नडार्थः - > ಸಹಿಸು /ತಾಳು
प्रयोगाः - > "मृष्यतां मम विभो व्यतिक्रमः प्रस्मृतत्वदुपकारपद्धतेः"
उल्लेखाः - > याद० १७-११८
मृष - तितिक्षायाम् (दिवा० उभ० सक० से०) मृष्यति-ते मृष्यतु-मृष्यतात्
कन्नडार्थः - > ಕ್ಷಮಿಸು /ಮನ್ನಿಸು
प्रयोगाः - > "मृष्यन्त्विदानीं लवस्य बालिशतां तातपादाः"
उल्लेखाः - > उ० रा०
Edgerton Buddhist Hybrid
English
mṛṣa (m. or nt.
otherwise only adv. mṛṣā, and Pali-Pkt. musā), falsehood, lying: mṛṣeṇa codayet SP 〔326.6〕 (vs), should accuse of lying
mṛṣaṃ bhaṇe Mv 〔i.356.7〕.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मृष्
मूलधातुः:
मृष
धात्वर्थः:
तितिक्षायाम्
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
मृष्यति-ते
धातुः:
मृष्
मूलधातुः:
मृष
धात्वर्थः:
तितिक्षायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
मर्षयति-ते
अनुबन्धादिविशेषः:
आधृषीयः
धातुप्रदीपः
Sanskrit
मृषँ मृष तितिक्षायाम्
- मृष्यते मृष्यति परिमृष्यति ममर्ष ममृषे मर्षितः अपमृषितम् दुर्मर्षणः अमर्षणः 58
मृषँ मृष तितिक्षायाम्
- मर्षयति मर्षति अन्यत्र मृष्यति मृष्यते मर्षति 293
शब्दकल्पद्रुमः
Sanskrit
मृष, त् क्षान्तौ इति कविकल्पद्रुमः
(अदन्त चुरा०-पर०-सक०-सेट् ।अन्यत्र, अदन्त भ्वा०-उभ०-सक०-सेट् ।)मूर्द्धन्योपधौ क, मृषयति ञ, मृषति मृषते ।इति दुर्गादासः
मृष, त् क्षान्तौ इति कविकल्पद्रुमः
(अदन्त चुरा०-पर०-सक०-सेट् ।अन्यत्र, अदन्त भ्वा०-उभ०-सक०-सेट् ।)मूर्द्धन्योपधौ क, मृषयति ञ, मृषति मृषते ।इति दुर्गादासः
मृष, सेचने इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् क्त्वावेट् ।) उ, मर्षित्वामृष्ट्वा इति दुर्गादासः
मृष, क्षान्तौ इति कविकल्पद्रुमः
(चुरा०-पर०-सक०-सेट् ।) क, मर्षयति अयमात्मने-पदीत्येके इति दुर्गादासः
मृष, क्षान्तौ इति कविकल्पद्रुमः
(भ्वा०-उभ०-आत्म०-च-सक०-सेट् क्त्वावेट् ।)ञ, मर्षति मर्षते ङ, मर्षते उ, मर्षित्वामृष्ट्वा अपि गुरुमपराधं मर्षति ब्राह्मणाना-मिति हलायुधः इति दुर्गादासः
मृष, क्षान्तौ इति कविकल्पद्रुमः
(दिवा०-उभ०-सक०-सेट् ।) ञ्, मृष्यति मृष्यते ममर्ष ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
मृष क्षमायाम् अद०
चु०
उभ०
सक०
सेट् मृषयति ते अमी-मृषत्
मृष क्षान्तौ अद०
भ्वा०
उभ०
सक०
सेट् मृषति ते अमृषीत् अमृषिष्ट
मृष सेचने
भ्वा०
पर०
सक०
सेट् मर्षति अमर्षीत् उदित् क्त्वावेट्
मृष क्षमायां
चु०
उभ०
सक०
सेट् मर्षयति ते अमीमृषत् तअममर्षत्
मृष क्षमायां
भ्वा०
उभ०
सक०
सेट् मर्षति ते अमर्षीत् अमृषिष्ट उदित् क्ता वेट्
मृष क्षमायां
चु०
पक्षे दिवा०
उभ०
सक०
सेट् मृष्यति ते ।मर्षयति ते मर्षितः मर्षित्वा
क्षीरतरङ्गिणी
Sanskrit
मृषँ मृष तितिक्षायाम्
- इतः पञ्च स्वरितेतः
द्वौ सेटौ, त्रयोऽनिटः मृष्यते, मृष्यति, मर्षिता परेर्मृषः (1382) परस्मैपदम्-परिमृष्यति मृषस्तितिक्षायाम् (1220) सेण् निष्ठा कित्-मर्षितः भाषायां शासियुधि (33130 वा0) इति युच्-दुर्मर्षणः नन्द्यादौ (गण0 31134) मर्षणः तृषिमृषिकृषेः काश्यपस्य (1225) इति वा कित् -मर्षित्वा, मृषित्वा चुरादौ (10238) आधृषाद् वा-मर्षयति मर्षति तुदादौ मृश आमर्शने (6129)तालव्यान्तः 54
मृषँ मृष तितिक्षायाम्
- मर्षयति, मर्षति दिवादौ (454) मृष्यति केचिद् अमुमदन्तत्वौपजीवनार्थं व्यत्यस्य पठन्ति-मृषयति, मृषति 292
धातुवृत्तिः
Sanskrit
मृषँ मृष (अर्थः) तितिक्षायाम्
(अर्थविवरणम्) तितिक्षा क्षमा
( मृष्यते ममृषे, ममृषिषे मर्षिता मर्षिष्यते मृष्यताम् अमृष्यत मृष्यते मर्षिषीष्ट अमर्षिष्ट अमर्षिष्यत मृष्यति ममर्ष मर्षितामर्षिष्यति मृष्यतु अमृष्यत् मृष्येत् मृष्यात् अमर्षत् अमर्षिष्यत् परिमृष्यति ) "परेर्मृषः'' इति क्रियाफलस्य कर्तृगामित्वेऽपि परस्मैपदम् ( मिमर्षिषते, मिमर्षिषति मरीमृषीति मर्मृषीति, मर्मष्टि, मरिमर्ष्टि, मरीमर्ष्टि, मरीमर्ष्टि मर्षयति अममर्षत् अमीमृषत्, ) "उरृद्वा'' ( मर्षितः, मर्षितवान्, ) "मृषस्तितिक्षायाम्'' इति सेटो निष्ठाया अकित्त्वम् तितिक्षाया अन्यत्र ( अपमृषितं ) वाक्यमाह, अविस्पष्टमित्यर्थः ( दुर्मर्षणः ) "भाषायां शासियुधि'' इत्यादिना युच् खलोऽपवादः अयमाधृषीयो अपि 56
मृषँ मृष (अर्थः) तितिक्षायाम्
पुरुषकारेणायं स्वरितेदित्युक्त्वा शाकटायनो यमात्मनेपदीत्युक्तम् ( मर्षयति मर्षति ) (मर्षते मृष्यति मृष्यतः) इतिदिवादौ सेचने शपि मर्षति 307
कृदन्तरूपमाला
Sanskrit
1 {@“मृष तितिक्षायाम्”@} 2 ‘-- -- क्षमायां यौ मर्षेन्मर्षेत मर्षयेत्।
मृष्यते मृष्यतीति स्यात् स्नेहने शपि मर्षति।।’ 3 इति देवः।
मर्षकः-र्षिका, मर्षकः-र्षिका, मिमर्षिषकः-षिका, मरीमृषकः-षिका
मर्षिता-त्री, मर्षयिता-त्री, मिमर्षिषिता-त्री, मरीमृषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकतृष्यतिवत् 4 ज्ञेयानि।
5 परिमृष्यन्-न्ती, 6 मर्षितः-मर्षितवान्, 7 अपमृषितम् 8, 9 दुर्मर्षणः, 10 11 मर्षित्वा-मृषित्वा, 12 मर्षणः, इतीमान्यस्य विशेषरूपाणीति ज्ञेयम्।
13 मृष्यमाणः।
प्रासङ्गिक्यः
01
=>
(१३१०)
02
=>
(४-दिवादिः-११६४। सक। सेट्। उभ।)
03
=>
(श्लो। १७३)
04
=>
(७७५)
05
=>
[[३। ‘परेर्मृषः’ (१-३-८२) इति परिपूर्वकस्यास्य कर्तृगामिन्यपि क्रियाफले परस्मैपदं शतैव। तेन शतरि, श्यनि अङ्गस्य गुणनिषेधे रूपमेवम्।]]
06
=>
[[४। ‘मृषस्तितिक्षायाम्’ (१-२-२०) इति सेटो निष्ठायाः कित्त्वनिषेधात् गुणे रूपमेवम्। अत्र धातुपाठ एवास्य धातोस्तितिक्षार्थनिर्देशात्, भौवादिकमर्षते- रुदित्त्वेन निष्ठायामिटः प्राप्त्यभावात्, पारिशेष्यात् दैवादिकस्यास्यैव ग्रहणस्य सम्भ- वेन (१-२-२०) सूत्रे पुनः ‘तितिक्षायाम्’ इत्युपादानं व्यर्थं सत् धातोरर्थान्तरत्वे गमकमिति शाब्दिकाः। तेन तितिक्षा (क्षमा) भिन्नार्थे निष्ठायाः कित्त्वमेव। यथा-- ‘अपमृषितं वाक्यमाह’ इति। अत्र धातोरुपसर्गयोगवशात् अविस्पष्टरूपार्थान्तरे वृत्तिरिति ज्ञेयम्।]]
07
=>
[[आ। ‘विहितं मयाऽद्य सदसीदमपमृषितमच्युतार्चनम्।’ शि। व। १५-४६।]]
08
=>
(वाक्यम्)
09
=>
[[५। ईषदाद्युपपदेषु, ‘भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज् वाच्यः’ (वा। ३-३-१३०) इति खलपवादो युच्। ‘वा इत्येके’ इति प्रक्रियाकौमुदी। तन्मते ईषन्मर्षः-दुर्मर्षः-सुमर्षः इति रूपाण्यपि बोध्यानि।]]
10
=>
[पृष्ठम्१०५५+ २४]
11
=>
[[१। क्त्वायाम्, ‘तृषिमृषिकृशेः काश्यपस्य’ (१-२-२५) इति कित्त्वविकल्पः। तेन रूपद्वयम्।]]
12
=>
[[२। नन्द्यादेः (३-१-१३४) आकृतिगणत्वात्, बाहुलकाद् वा कर्तरि, ण्यन्तात्, शुद्धाद्वा ल्युप्रत्यये रूपमेवम्।]]
13
=>
[[आ। ‘तन्मृष्यमाणास्त्वथ शुच्यदङ्गका भृत्याः सुनद्धं बहुरक्तमंशुकम्।’ धा। का। २। ६१।]]
1 {@“मृष तितिक्षायाम्”@} 2 आधृषीयः।
तेन णिज्विकल्पः।
‘--क्षमायां यौ मर्षेन्मर्षेत मर्षयेत्।’ 3 इति देवः।
मर्षकः-र्षिका, मिमर्षयिषकः-षिका, मर्षकः-र्षिका, मिमर्षिषकः-षिका, मरीमृषकः-षिका
मर्षयिता-त्री, मर्षिता-त्री, मिमर्षयिषिता-त्री, मिमर्षि- षिता-त्री, मरीमृषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचर्षतिवत् 4 ज्ञेयानि।
णिजभावपक्षे क्विपि-मृट्-मृड्-मृषौ-मृषः, मृषित्वा-मर्षित्वा, इत्यादीनि रूपाण्यस्य धातोरिति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३११)
02
=>
(१०-चुरादिः-१८५०। सक। सेट्। उभ।)
03
=>
(श्लो। १७३)
04
=>
(५५४)