| YouTube Channel

मृश (mRza)

 
Wilson
English
मृश(औ)मृशौ r. 6th cl. (मृशति)
1 To touch.
2 To see, to perceive.
3 To consult, to consider, to deliberate.
With परा, To counsel, to advise.
With वि, To consider, to discuss.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मृश्
मूलधातुः:
मृश
धात्वर्थः:
आमर्शने
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
मृशति
धातुप्रदीपः
Sanskrit
मृशँ मृश आमर्शने
- मृशति म्रष्टा मर्ष्टा म्रक्ष्यति मर्क्ष्यति अम्राक्षीत् अमार्क्षीत् अमृक्षत् अम्राष्टाम् अमार्ष्टाम् अमृक्षताम् 151
शब्दकल्पद्रुमः
Sanskrit
मृश, मृशि इति कविकल्पद्रुमः
(तुदा०-पर० सक०-अनिट् ।) श, मृशति औ, अमार्क्षीत् अम्राक्षीत् अमृक्षत् मृशि इतितालव्यान्तस्यैव क्विपि रूपम् तेन अनि-र्दि ष्टार्थत्वात् स्पर्शनं प्रणिधानञ्च अस्यार्थः ।स्पर्शने यथा, रघौ ६८ ।“परामृशन् हर्षजडेन पाणिनातदीयमङ्गं कुलिशव्रणाङ्कितम् ।”प्रणिधाने ।“रामप्रवासे व्यमृशन्न दोषंजनापवादं सनरेन्द्रमृत्युम् ।”केकयीति भट्टिः
विमर्शं परामर्शः मृषि इति मूर्द्धन्यान्तपाठोहेयः तर्हि क्षमैवार्थः स्यात् इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
मृश स्पर्शने प्रणिधाने तु०
पर०
सक०
अनिट् मृशतिअम्राक्षीत् अमार्क्षीत् अमृक्षत् ममर्श
क्षीरतरङ्गिणी
Sanskrit
मृशँ मृश आमर्शने
- (अर्थविवरणम्) आमर्शनं स्पर्शः
परामृशाति, आमर्शन इत्युक्तेः सोपसर्गः विम्रष्टा, विमर्ष्टा स्पृशमृश (3147 वा0) इत्यमृक्षत् अम्राक्षीत् अमार्क्षीत् 144
धातुवृत्तिः
Sanskrit
मृशँ मृश (अर्थः) आमर्शने
(अर्थविवरणम्) आमर्शनं स्पर्शः
(मृशति) इत्यादि सर्वे स्पृशतिवत् 141
कृदन्तरूपमाला
Sanskrit
1 {@“मृश आमर्शने”@} 2 आमर्शनम् = स्पर्शः।
मर्शकः-र्शिका, मर्शकः-र्शिका, 3 मिमृक्षकः-क्षिका, मरीमृशकः-शिका
4 5 म्रष्टा-मर्ष्टा-र्ष्ट्री, मर्शयिता-त्री, मिमृक्षिता-त्री, मरीमृशिता-त्री, इत्यादीनि सर्वाणि रूपाणि भौवादिककर्षतिवत् 6 ज्ञेयानि।
शतरि- 7 आमृशन्- न्ती-ती, म्रक्ष्यन्-मर्क्ष्यन्-न्ती-ती
इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३०९)
02
=>
(६-तुदादिः-१४२५। सक। अनि। पर।)
03
=>
[[९। सन्नन्तात् ण्वुलि, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वात् ‘--अकिति’ (६-१-५९) इत्युक्तत्वात् अमभावे ‘व्रश्च--’ (८-२-३६) इत्यादिना धातुशकारस्य षकारे ‘षढोः कः सि’ (८-२-४१) इति ककारे षत्वे रूपमेवम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
04
=>
[पृष्ठम्१०५४+ २६]
05
=>
[[१। ‘अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्’ (६-१-५९) इति वा अमागमः। ततः यण्। तेन रूपद्वयं बोध्यम्। एवमेव अकिति झलादिप्रत्यये परतः सर्वत्र अमागमो विकल्पेन भवति।]]
06
=>
(२५५)
07
=>
[[२। ‘तुदादिभ्यः शः’ (३-१-७७) इति शः बिकरणप्रत्ययः। अपित्सार्वधातुकस्य शस्य ङिद्वद्भावाद् अङ्गस्य गुणो न। स्त्रियां नुम्विकल्पे रूपद्वयं ज्ञेयम्।]]