| YouTube Channel

मृद (mRda)

 
Wilson
English
मृद r. 9th cl. (मृद्नाति)
1 To grind, to powder, to reduce to dust or powder.
2 To trample on, to tread under foot.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मृद्
मूलधातुः:
मृद
धात्वर्थः:
मर्दने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
मर्दते
अनुबन्धादिविशेषः:
घटादिः, षित्
धातुः:
मृद्
मूलधातुः:
मृद
धात्वर्थः:
क्षोदे
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मृद्नाति
धातुप्रदीपः
Sanskrit
मृदँ मृद क्षोदे
- मृङ्गाति ममर्द मर्दिता मृदित्वा मर्दनम् मृत् 46
शब्दकल्पद्रुमः
Sanskrit
मृद, क्षुदि इति कविकल्पद्रुमः
(क्र्या०-पर०-सक०-सेट् ।) ग, मृद्नाति ममर्द क्षुदिचूर्णीकरणे इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
मृद क्षोदे क्र्य० प०
सक०
सेट् मृद्गाति अमर्द्दीत् ममर्द
क्षीरतरङ्गिणी
Sanskrit
मृदँ मृद क्षोदे
- मृद्नाति मृद्यति-मृत् मृदस्तिकन् (5439)-मृत्तिका मृडमृद (127) इति क्त्वा कित्-मृदित्वा 42
धातुवृत्तिः
Sanskrit
मृदँ मृद (अर्थः) क्षोदे
( मृद्नाति, मूद्नीतः मृद्नासि मृद्नामि ममर्द ममृदतुः ममृदुः ममर्दिथ ममृदथुः ममृद ममृदिव ममृदिम मर्दिता मर्दिष्यति मृद्नातु मृदान) "हलःश्न'' इति श्नः शानच् (मृद्नानि अमृद्नात् अमृद्नाः अमृद्नाम् अमृद्नीव मृद्नीयात् ) आशिषि ( मृद्यात् अमर्दीत् मिमर्दिषति मरीमृद्यते मर्मर्त्ति) इत्यादि ( मर्दयति अममर्दत् अमीमृदत् ) उरृद्वा ( मृत् ) क्विप् ( मृत्तिका ) "मृदस्तिकन्'' इति स्वार्थे तिकन् ( मृत्स्ना मृत्स्ना ) "सस्नौ प्रशंसायाम्'' इति सस्नौ प्रत्ययौ ( मर्दनम् मृद्यः ) "ऋदुपधात्'' इति क्यप् (मृदित्वा) "मृडमृद'' इति सेटः क्त्वः कित्त्वम् 43
कृदन्तरूपमाला
Sanskrit
1 {@“मृद क्षोदे”@} 2 3 क्वचित् सिद्धान्तकौमुद्यां ‘मृद मर्दने’ इति भ्वादिष्वपि 4 पठ्यते।
वस्तुतस्तत्र ‘म्रद्--’ इति भाव्यम् इत्याशयेनास्माभिर्नायं विलिखित इति ज्ञेयम्।]] ‘क्षोदनम् = सञ्चूर्णनम्’ इति धा।
का।
5।
मर्दकः-र्दिका, मर्दकः-र्दिका, मिमर्दिषकः-षिका, मरीमृदकः-दिका
मर्दिता-त्री, मर्दयिता-त्री, मिमर्दिषिता-त्री, मरीमृदिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकतृपतिवत् 6 ज्ञेयानि।
क्विपि- 7 मृत्-मृद्-मृदौ-मृदः, 8 मृत्तिका, मृत्सा-मृत्स्ना, 9 मुरमर्दनः, मर्दनम्, 10 मृद्यः, 11 महिषासुरमर्दनी, 12 मृदित्वा, 13 मृदङ्गः, इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१३०७)
02
=>
(९-क्र्यादिः-१५१५। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(७६७)
05
=>
(३-१०)
06
=>
(७७२)
07
=>
[पृष्ठम्१०५३+ २९]
08
=>
[[१। ‘मृदस्तिकन्’ (५-४-३९) इति मृच्छब्दात् स्वार्थे तिकन्प्रत्यये रूपमेवम्।]]
09
=>
[[२। नन्द्यादेः (३-१-१३४) आकृतिगणत्वात् कर्तरि ल्युप्रत्ययः। मुरं मर्दयतीति मुरमर्दनः।]]
10
=>
[[३। ‘ऋदुपधात्--’ (३-१-११०) इति क्यप्प्रत्ययः।]]
11
=>
[[४। बाहुलकात् ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति कर्मण्युपपदे कर्तरि ल्युटि, स्त्रियां टित्त्वात् ङीपि रूपमेवम्।]]
12
=>
[[५। ‘मृडमृद--’ (१-२-७) इति सेटः क्त्वायाः कित्त्वात् गुणनिषेधे रूपमेवम्।]]
13
=>
[[६। ‘विडादिभ्यः कित्’ (द। उ। ३-६१) इति अङ्गच्प्रत्ययः। मृदङ्गः = वाद्यविशेषः।]]