| YouTube Channel

मृत्युञ्जयः (mRtyuJjayaH)

 
Apte Hindi
Hindi
मृत्युञ्जयः
पुं*
- "मृत्यु + जि + खच्, मुम्"
शिव का विशेषण
शब्दकल्पद्रुमः
Sanskrit
मृत्युञ्जयः,
पुं,
(मृत्युं जितवान् जि + खच् +मुम् ।) शिवः इत्यमरः
तन्नामकारणंयथा, --सुयज्ञ उवाच ।“शिवो लीनो निर्गुणे चेत् श्रीकृष्णे प्राकृते लये ।कथं तव गुरोर्नाम मृत्युञ्जय इति श्रुतौ
”सुतपा उवाच ।“ब्रह्मणोऽन्ते मृत्युकन्या प्रनष्टा जलबिन्दुवत् ।संहर्त्री सर्व्वलोकाणां ब्रह्मादीनां नराधिप !
कतिधा मृत्युकन्यानां ब्रह्मणां कोटिशो लये ।कालेन लीनः शम्भुश्च सत्त्वरूपी निर्गुणे
मृत्युकन्या जिता शश्वत् शिवेन गुरुणा मम ।न मृत्युना जितः शम्भुः कल्पे कल्पे श्रुतौश्रुतम्
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः
रोगशान्त्यर्थं तस्य पूजाविधिर्यथा, --“मृत्युञ्जयं समापूज्य लिङ्गं त्रिभुवनेश्वरम् ।रोगात्ता मुच्यते रोगाद्वद्धो मुच्येत बन्धनात्
यस्तु संपूजयेद्भक्त्या लिङ्गं मृत्युञ्जयाभिधम् ।यमोऽपि प्रणमेद्भक्त्या किं करिष्यति चामयः
तस्य पूजाविधिं वक्ष्ये शृणु मत्प्राणबल्लभे ! ।जातिभेदे मृत्तिकान्तु गृहीत्वाशीतितोलकम्
निर्म्माय पार्थिवं लिङ्गं कांस्याधारे निवेशयेत् ।पौराणिकेन मन्त्रेण कुर्य्याच्च गठनं बुधः
स्नापयेत् पञ्चगव्येन प्रत्येकस्याष्टतोलकम् ।स्वस्वमन्त्रैश्च प्रत्येकद्रव्येण खापयेत् सुधीः
रोगक्षयकामनया नामगोत्रादिपूर्व्वकम् ।उपविश्यासने विप्रो धृत्वा धौते वाससी
रुद्राक्षमालां कण्डे वै धृत्वा भस्मत्रिपुण्ड्रकम् ।उपचारं षोडशकं देयं भक्त्या प्रयत्नतः
सुवर्णस्यासनं देयं तथैवाभरणानि ।वस्त्रयुग्मं प्रदद्यात्तु परिधेयं यथा भवेत्
मधुपर्कं कांस्यपात्रे दद्याद्भोजनयोग्यकम् ।विल्वपत्रसहस्रञ्च अभग्नं विनिवेदयेत्
एवं संपूज्य लिङ्गैकं जपेन्मन्त्रं सहस्रकम् ।ततो होमं प्रकुर्य्याच्च दक्षिणां ब्राह्मणे ददेत्
सुवर्णं वा तदर्द्धं वा देवि ! विभवमानतः ।अङ्गहीना कर्त्तव्या पूजा चाफलदा यतः
एकलिङ्गं समाराध्य फलं स्यादन्यके युगे ।तत् फलं लभते देवि ! कलौ संख्या चतुर्गुणा
ताम्रपात्रे तु संस्थाप्य अशीतितोलकं जलम् ।तज्जलेनैव देवेशि ! कुशैः संमार्ज्य रोगिणम्
क्षिपेद्दीपशिखायाञ्च मन्त्रमुच्चार्य्य मामकम् ।एवंविधिविधानेन पूजयेन्मम लिङ्गकम्
यादृग्यादृग्भवेद्रोगो नाशमेति मयोदितः ।साङ्गेन पूजयित्वा लभते वाञ्छितं फलम्
अङ्गव्यतिक्रमेणैव वृथा भवति वासना ।रोगी प्रमुच्यते सद्यो भोगीव कञ्चुकोज्झितः ।यदि मद्वचने भक्तिस्तदा मुक्तो भवेन्नरः
”इति मृत्युञ्जयतन्त्रम्
(ज्वरनाशकौषधविशेषः तद्यथा, --“अव्यक्तः सिद्धिदः शुद्धो रोगघ्नः कीर्त्तिवर्द्धनः ।यशःप्रदः शिवः साक्षात् मत्युञ्जयरसः स्मृतः
विषस्यैकस्तथा भागो मरीचं पिप्पली कणा ।गन्धकस्य तथा भागो भागः स्याट्टङ्गणस्य वै
सर्व्वत्र समभागः स्याद्धिङ्गुलन्तु द्विभागकम् ।चूर्णयेत् खल्लमध्ये तु मुद्गमानां वटीञ्चरेत्
रसश्चेत् समभागः स्याद्धिङ्गुलं नेष्यते तदा ।मृत्युरूपं ज्वरं हन्ति मृत्युञ्जयरसः स्मृतः
मृत्युर्विनिर्जितो यस्मात्तस्मान्मृत्युञ्जयः स्मृतः ।मधुना लेहनं प्रोक्तं सर्व्वज्वरनिवृत्तये
दध्योदकानुपानेन वातज्वरनिवर्हणः ।आर्द्रकस्य रसैः पानं दारुणे सान्निपातिके
जम्बीररसयोगेन सर्व्वज्वरविनाशनः ।अजाजीगुडसंयुक्तो विषमज्वरनाशनः
तीव्रज्वरे महाघोरे पुरुषे यौवनान्विते ।पूर्णमात्रा प्रदातव्या पूर्णं वटीचतुष्टयम्
स्त्रीबालवृद्धक्षीणे अर्द्धमात्राः प्रकीर्त्तिताः ।नवज्वरे महाघोरे यामैकान्नाशयेद्ध्रुवम्
मध्यज्वरे तथाजीर्णे त्रिरात्रान्नाशयेद्ध्रुवम् ।सप्ताहात् सन्निपातोत्थं ज्वराजीर्णकसंज्ञ-कम्
”इति मृत्युञ्जयो रसः
इति वैद्यकरसेन्द्रसार-संग्रहे ज्वराधिकारे
क्ली,
ज्ञानविशेषः यथा, ब्रह्मवैवर्त्तपुराणे प्रकृतिखण्डे ४६ ९५ ।“शम्भुश्च चतुरो वेदान् वेदाङ्गानितरांस्तथा ।बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम्
”)