| YouTube Channel

मृतवत्सा (mRtavatsA)

 
शब्दसागरः
English
मृतवत्सा
f.
(-त्सा) A woman or female animal, whose offspring never live long.
E.
मृत, वत्स young.
Yates
English
मृत-वत्सा (त्सा) 1.
f.
A woman whose
offspring dies.
Wilson
English
मृतवत्सा
f.
(-त्सा) A woman or female animal, whose offspring never
live long.
E.
मृत, and वत्स young.
Monier Williams Cologne
English
मृत॑—वत्सा (मृत॑-),
f.
whose offspring or new-born child dies,
AV.
Shabdartha Kaustubha
Kannada
मृतवत्सा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮಕ್ಕಳನ್ನು ಕಳೆದುಕೊಂಡ ತಾಯಿ
मृतवत्सा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕರುಸತ್ತ ಹಸು
शब्दकल्पद्रुमः
Sanskrit
मृतवत्सा,
स्त्री,
(मृता वत्सा यस्याः ।) मृता-पत्या अजीवत्सन्ताना गर्भावधिवर्षत्रयंयावत् पुनःपुनर्म्मृतसन्ताना अस्या दोषशान्ति-र्यथा, --“सप्तमीस्नपनं वक्ष्ये सर्व्वलोकहिताय वै ।जातस्य मृतवत्सायाः सप्तमे मासि नारद ! ।अथवा शुक्लसप्तम्यामेतत् सर्व्वञ्च शस्यते
ग्रहताराबलं लब्ध्वा कृत्वा वा विप्रवाचनम् ।बालस्य जन्मनक्षत्रतिथिदेवान् यजेद्बुधः
तद्बद्वृद्धातुराणान्तु कृत्यं स्यादितरेषु ।गोमयेनानुलिप्तायां भूमावेकाग्निवत्तदा
तण्डुलै रक्तशालीयैश्चरुं गोक्षीरसंयुतम् ।निर्व्वपेत् सूर्य्यरुद्राभ्यां तन्मन्त्राभ्यां विधानतः
कीर्त्तयेत् सूर्य्यदैवत्यं सप्तर्च्चञ्च घृताहुतीः ।जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय नारद !
होतव्याः समिधस्तद्वत्तथैवार्कपलाशयोः ।यवकृष्णतिलैर्होमः कर्त्तव्योऽष्टशतं पुनः
व्याहृतिभिरथाज्येन तथैवाष्टशतं द्विज ! ।हुत्वा स्नानञ्च कर्त्तव्यमङ्ग्यङ्गेन धीमता
विप्रेण वेदविदुषा विधिवद्दर्भपाणिना ।स्नापयित्वा तु चतुरः कुम्भान् कोणेषु शोभनान्
पञ्चमञ्च पुनर्मध्ये दध्यक्षतविभूषितम् ।स्थापयेदव्रणं कुम्भं सप्तर्च्चेनाभिमन्त्रितम् ।सौरेण तीर्थतोयेन पञ्चरत्नसमन्वितम्
सर्व्वान् सर्व्वौषधैर्युक्तान् पञ्चगव्यसमन्वितान् ।पञ्चरत्नफलैर्युक्तान् वासोभिरभिवेष्टयेत्
गजाश्वरथ्यावल्मीकसङ्गमात् ह्रदगोकुलात् ।राजद्बारप्रदेशाच्च मृदमानीय निःक्षिपेत्
चतुर्ष्वपि कुम्भेषु रत्नगर्भेषु मध्यमम् ।गृहीत्वा ब्राह्मणस्तन्तु सौरान्मन्त्रानुदीरयेत्
सप्तभिरपि नारीभिरव्यङ्गाभिरथाप्यलम् ।पूजिताभिर्यथाशक्त्या माल्यवस्त्रविभूषणैः ।सविप्राभिश्च कर्त्तव्यं मृतवत्साभिषेचनम् ।दीर्घायुरस्तु बालोऽयं जीवपुत्त्रा भाविनी
आदित्यश्चन्द्रमाः सार्द्धं ग्रहनक्षत्रमण्डलैः ।शक्रः सलोकपालो वै ब्रह्मविष्णुमहेश्वराः ।एते चान्ये देवौघाः सदा पान्तु कुमारकम्
मित्रोऽशनिर्मा हुतभुङ्मा बालग्रहाः क्वचित् ।पीडां कुर्व्वन्तु बालस्य मा मातुर्जनकस्य वै
ततः शुक्लाम्बरधरा कुमारी पतिसंयुता ।सप्तकं पूजयेद्भक्त्या स्त्रीणामथ गुरुं पुनः
काञ्चनीञ्च ततः कृत्वा तिलपात्रोपरिस्थिताम् ।प्रतिमां कूर्म्मराजस्य गुरवे विनिवेदयेत्
वस्त्रकाञ्चनरत्नौघैर्भक्ष्यैः सघृतपायसैः ।पूजयेद्ब्राह्मणं तद्बद्वित्तशाठ्यविवर्ज्जितः
भुक्त्वा गुरुणा चेयमुच्चार्य्या मन्त्रसन्ततिः ।दीर्घायुरस्तु बालोऽयं यावद्वर्षशतं समम् ।यत्किञ्चिदस्य दुरितं निःक्षिप्तं बडवानले
ब्रह्मा रुद्रो वसु स्कन्दो विष्णुर्देवो हुताशनः ।रक्षन्तु सर्व्वदुष्टेभ्यो वरदाः सन्तु सर्व्वदा
एवमादीनि वाक्यानि वदन्तं पूजयेद्गुरुम् ।शक्तितः कपिलां दद्यात् प्रणिपत्य विसर्ज्जयेत्
गुरुञ्च पुत्त्रसहिता प्रणम्य रविशङ्करौ ।हुतशेषं तदाश्नीयादादित्याय नमोऽस्तु ते
इदमेवाद्भुतोद्वेगदुःखस्वप्नेषु शस्यते ।कर्त्तृजन्मदिनर्क्षाणां देवान् संपूजयेत् सदा
शान्त्यर्थं शुक्लसप्तम्यामेतत् कुर्व्वन्न सीदति
चानेन विधानेन दीर्घायुरभवत्ततः ।सम्बत्सराणामयुतं शशास पृथिवीमिमाम्
”इति मात्स्ये ६४ अध्यायः
तल्लक्षणशान्त्यौषधानि यथा, --“गर्भः संजातमात्राद्बा पक्षात् मासाच्चवत्सरात् ।म्रियते द्वित्रिवर्षाद्वा यस्याः सा मृतवत्सिका
तत्र योगं प्रकर्त्तव्यं यथा शङ्करभाषितम्
मार्गशीर्षे तथा ज्येष्ठे पूर्णिमालेपिते गृहे ।नूतनं कलसं पूर्णं पूजयेन्मातृकाः सुधीः
शाखाफलसमायुक्तं नवरत्नसमन्वितम् ।सुवर्णसूत्रिकायुक्तं षट्कोणमण्डले स्थितम् ।तन्मध्ये पूजयेद्देवीं एकान्तीनामविश्रुताम्
गन्धपुष्पाक्षतैर्धूपैर्दीपनैवेद्यसंयुतैः ।पूजयेद्भक्तिभावेन मद्यमांसैः समत्स्यकैः
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।वाराही तथा चैन्द्री षट्पत्रेषु मातरः
पूजयेन्मन्त्रपूतेन फेँकारे नाम विश्रुते ।दधिभक्तानि पिण्डानि सप्तसङ्ख्यानि कारयेत्
षट्सङ्ख्येषु पत्रेषु मातृभ्यः कल्पयेत् पृथक् ।चिल्लेभ्यः सप्तमं पिण्डं शुचिस्थाने बहिः क्षिपेत् ।तैर्भुक्ते गृहमागच्छेच्चक्राग्रे यागमारभेत्
कन्यकां योगिनीं वामां भोजयेत् सकुटुम्बकैः ।दक्षिणां दापयेत्तासां देवताग्रे चान्यथा
विसृज्य देवताञ्चाथ नद्यां तत्कलसोदकम् ।शकुनं वीक्षयेद्धीमान् शुभेन शुभमादिशेत्
विपरीते पुनः कार्य्यं यागं तन्तु सुसिद्धिदम् ।प्रतिवर्षमिदं कार्य्यं दीर्घजीविसुतं लभेत्
”ओँ ह्रीं फेँ एकान्तीदेवतायै नमः अनेनमन्त्रेण पूजा जपश्च कार्य्यः
*
“प्राङ्मुखः कृत्तिकाऋक्षे बन्ध्याकर्कोटकीं हरेत् ।तत्कन्दं पेषयेत्तोयैः कर्षमात्रं सदा पिवेत्
या बीजपूरं द्रवमूलमेकंक्षीरेण पक्वं प्रपिवेत् विमिश्रम् ।ऋतौ निजं या तु पतिं प्रयातिदीर्घायुषं सा तनयं प्रसूते
मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला ।मेदा पयस्या काकोलीमूलञ्चैवाश्वगन्धजम्
अजमोदा हरिद्रे द्बे हिङ्गुः कटुकरोहिणी ।उत्पलं कुमुदं द्राक्षा काकोल्योर्म्मूलकद्वयम् ।एतेषां कर्षकैर्भागैर्घृतप्रस्थं विभावयेत्
शतावरीरसं क्षीरं घृतस्येदं चतुर्गुणम् ।संपिवेन्नियतं नारी नित्यं स्त्रीषु शस्यते ।पुत्त्रान् जनयते नारी मेधाट्यान् प्रियदर्शनान्
या चैवास्थिरगर्भा स्यात् या नारी जनयेन्मृतम् ।अल्पायुषञ्च जनयेत् या कन्याः प्रसूयते
योनिदोषे रजोदोषे गर्भस्रावे शस्यते ।प्रजावर्द्धनमायुष्यं सर्व्वग्रहनिवारणम्
नाम्ना फलघृतं ह्येतदायुष्यं परिकीर्त्तितम् ।नोक्तञ्च लक्ष्मणामूलं वदन्त्यत्र चिकित्सकाः
जीववत्साशुक्लवर्णाघृतमत्र तु दीयते ।अरण्यगोमयेनात्र वह्नेर्ज्वाला प्रदीयते
”अत्र पयस्या क्षीरयुक्तभूमिकुष्माण्डम् उत्-पलं नीलम् इति इन्द्रजालतन्त्रे मृतवत्सा-चिकित्सा
*
अन्यच्च अथ मृतवत्सासुत-जीवनोपायः ।ईश्वर उवाच ।“गर्भः संजातमात्रेण पक्षान् मासाच्च वत्सरात् ।म्रियते द्वित्रिवर्षादिर्यस्याः सा मृतवत्सका
गृहीत्वा शुभनक्षत्रे अपामार्गस्य मूलकम् ।गृहीत्वा लक्ष्मणामूलं एकवर्णगवां पयः ।पीत्वा सा लभते गर्भं दीर्घजीविसुता भवेत्
यस्यै कस्यै दातव्यं नान्यथा शङ्करोदितम्
बन्ध्याकर्कोटिकाकन्दं मोचाराजेन पेषयेत् ।ऋतुकाले तु सप्ताहं दीर्घजीविसुता भवेत् ।सत्यं सत्यं प्रकर्त्तव्यं यथा शङ्करभाषितम्
*
मार्गशीर्षेऽथवा ज्येष्ठे पूर्णायां लेपिते गृहे ।नूतनं कलसं पूर्णं गन्धतोयेन कारयेत्
शाखाफलसमायुक्तं नवरत्नसमन्वितम् ।सुवर्णमुद्रिकायुक्तं षट्कोणमण्डले स्थितम् ।तन्मध्ये पूजयेद्देवीमेकान्तीनामविश्रुताम्
गन्धपुष्पाक्षतैर्धूपैर्द्दीपैर्नैवेद्यसंयुतैः ।अर्च्चयेद्भक्तिभावेन दुग्धं माषं तथा मधु
वाराही तथा चैन्द्री ब्राह्मी माहेश्वरी तथा ।कौमारी वैष्णवी देवी षट्सु कोणेषु मातरः ।पूजयेन्मन्त्रभावेन दधिपिण्डानि कारयेत्
सप्तसङ्ख्याप्रमाणानि षट्सङ्ख्या षट्षु पात्रतः ।सप्तमन्तु पृथक् कृत्वा शुचिस्थाने विशेषतः
तद्भुक्तं गृहमागच्छेत् कन्यका वटुकस्त्रियः ।भोजयेद्दक्षिणां दत्त्वा प्रणामं कारयेत्ततः
विसृज्य स्वेष्टदेवीञ्च आद्यां तत्सकलेष्टदाम्
शकुनं वीक्षयेद्धीमान् शुभेन शुभमादिशेत्
विपरीते पुनः कार्य्यं यागं तावत् सुसिद्धिदम् ।प्रतिवर्षमिदं कुर्य्यात् दीर्घजीविसुतं लभेत् ।सिद्धियोगमिदं ख्यातं नान्यथा शङ्करोदितम्
”अथ मन्त्रः ओँ परं ब्रह्म परमात्मने अमुकी-गृहे दीर्घजीविसुतं कुरु कुरु स्वाहा
*
अथ काकबन्ध्या ईश्वर उवाव ।“पूर्व्वं पुत्त्रवती या सा क्वचिद्बन्ध्या भवेद्यदि ।काकबन्ध्या तु सा ज्ञेया चिकित्सा तत्र कथ्यते
विष्णुक्रान्तां समूलान्तु पिष्ट्वा माहिषदुग्धके ।महिषीनवनीतेन ऋतुकाले तु भक्षयेत्
एवं सप्तदिनं कुर्य्यात् पथ्ययुक्तिश्च पूर्व्ववत् ।गर्भं सा लभते नारी काकबन्ध्या सुशोभनम्
अश्वगन्धीयमूलन्तु ग्राहयेत् पुष्यभास्करे ।पेषयेन्महिषीक्षीरे पलार्द्धं भक्षयेत् सदा
सप्ताहाल्लभते गर्भं काकबन्ध्या चिरायुषम् ।यस्यै कस्यै दातव्यं नान्यथा शङ्करोदितम्
”अथ मन्त्रः ओँनमः शक्तिरूपाय अस्या गृहेपुत्त्रं कुरु कुरु स्वाहा १०००० जपात् सिद्धिः ।इति श्रीदत्तात्रेयतन्त्रे ईश्वरदत्तात्रेयसंवादेजन्मबन्ध्यादीनां पुत्त्रकरणं नाम सप्तदशपटलः
क्वचिद्ग्रन्थे २० पटलः
वाचस्पत्यम्
Sanskrit
मृतवत्सा स्त्री मृतोवत्सो यस्याः मृतापत्यायां स्त्रियां२ स्त्रीगव्याञ्च “मृतवत्सा या नारीति” तन्त्रम्