| YouTube Channel

मृणालं (mRNAlaM)

 
शब्दकल्पद्रुमः
Sanskrit
मृणालं,
क्ली,
पुं,
मृण्यते हिंस्यते भक्षणाद्यर्थंयत् (मृण् + “तमिविशिविडिमृणिकुलिकपि-पलिपञ्चिभ्यः कालन् ।” उणा० ११७ ।इति कालन् पङ्कजादीनां नालम् ।) मोलामइति ख्यातम् इति भरतः
(यथा, नैषध-चरिते १३७ ।“मदर्थसन्देशमृणालमन्थरःप्रियः कियद्दूर इति त्वयोदिते ।”)तत्पर्य्यायः विसम् इत्यमरः १० ४२
विशम् इति द्विरूपकोषः
पद्मनालम् ४मृणाली मृणालिनी पद्मतन्तुः विसिनी८ नलिनीरुहम् अस्य गुणाः शिशिर-त्वम् तिक्तत्वम् कषायत्वम् पित्तदाहमूत्र-कृच्छ्रविकाररक्तवान्तिहरत्वञ्च इति राज-निर्घण्टः
(शालूकविशेषः तत्पर्य्यायो यथा, “पद्मादिकन्दः शालूकं करहाटश्च कथ्यते ।मृणालं मूलं भिष्माण्डं लज्जाशूकञ्च कथ्यते
”तथास्य गुणाः विशार्थे शालूकार्थे
“मृणालं शीतलं वृष्यं पित्तदाहास्रजिद्गुरु
दुर्ज्जरं स्वादुपाकञ्च स्तन्यानिलकफप्रदम् ।संग्राहि मधुरं रूक्षं शालूकमपि तद्गुणम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)
मृणालं,
क्ली,
(मृण + कालन् ।) वीरणमूलम् ।इति मेदिनी ले, १२४
(अस्य पर्य्यायो यथा, मृणालमभयं सेव्यं लामज्जकमुशीरकम्
”इति वैद्यकरत्नमालायाम्
“स्यादुशीरं मृणालञ्च सेव्यं लामज्जकन्तथा
”इति गारुडे पूर्व्वखण्डे २०८ अः
)