| YouTube Channel

मृजूँष् (mRjU~S)

 
क्षीरतरङ्गिणी
Sanskrit
मृजूष् शुद्धौ
- व्रश्चभ्रस्ज (8236) इति षः, मृजेर्वृद्धिः (72114)-मार्ष्टि मृजेरजादौ संक्रमे विभाषा वृद्धिः=परिमृजन्ति परिमार्जन्ति ऊदित्त्वाद् (द्र0 7244) वेट्-मार्ष्टा मार्जिता मृष्टः मृजेर्विभाषा (31113) क्यप् परिमृज्यः, परिमार्ग्यः तुन्दशोकयोः परिमृजापनुदोः (325) कः-तुन्दपरिमृजोऽलसः घञ् (द्र0 3318, 19)-मार्गः भिदादौ (गण0 33104) मृजा कञ्जिमृजिभ्यां चिद् (उ0 3137) इत्यारन्-मार्जारः, मार्जालः मृजेष्टिलोपश्च (उ0 1110) इति कलच्-मलः चुरादौ मृजूष् शौचालंकारयोः (10237)-मार्जयति मार्जना (द्र0 33107) मार्जितः, मार्जिता रसालेति रूढिः (द्र0 अमर 2944) 54
मृजूष् शौच, अलंकारयोः
- मार्जयति, मार्जति, मार्जना, मार्जिता, रसाला चेति लोकः अदादौ (261) संमार्ष्टि, लुमताङ्गस्य (1161) इत्यस्यानित्यत्वात् मृजेरात् 291