मृङ् (mRG)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit मृ
मृङ्
प्राणत्यागे
तुदादिः
अकर्मकः
अनिट्
आत्मनेपदी
म्रियते
ऋकारान्तः
टिप्पनी: लिट्, लुट्, लृट्सु परस्मैपदी
धातुप्रदीपः
Sanskritमृङ् प्राणत्यागे
- म्रियते ममार मर्त्ता मरिष्यति अम्रियत मृषीष्ट अमृत मुमूर्षति मरीम्रीयते मारयति अमीमरत् मृत्वा मृतः मृत्युः मरः अमरः 129
क्षीरतरङ्गिणी
Sanskritमृङ् प्राणत्यागे
- म्रियते म्रियतेर्लुङ्लिङोश्च (1361) इति तङ्-अमृत, मृषीष्ट अत एव वा ङित्त्वं पेठुः ममार मरिष्यति मारः मारकः अभिमरस् तैक्ष्ण्ये मर्म मर्मरः, पचादौ (द्र0 31134) अमरः भुजिमृङ्भ्यां युक्त्युकौ च (तु0 उ0 321)-मृत्युः भृमृशी (उ0 17) इत्युः-मरुः मृग्रोरुतिः (उ0 194)-मरुत् मृकणिभ्यामीचिः (उ0 470)-मरीचिः मरूको निर्दशनः करी हसिमृगृ (उ0 386) इति तन् मर्तः, स्वार्थे यः (द्र0 5436 वा0) मर्त्यः 122
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritमृङ् (अर्थः) प्राणत्यागे
( म्रियते ममार मम्रतुः मम्रुः ममर्थ मम्रिव ) क्रादिनियमादिट् थलि तु "अचस्तास्वतथल्यनिटो नित्यम्'' इतीण् न भवति ( मर्त्ता मरिष्यति "ऋद्धनोः''इतीट् (म्रियताम् अम्रियत म्रियेत मृषीष्ट अमृत अमृषाताम् ) झलि सिचो लोपः "उश्च'' इति लिङ्सिचोः कित्त्वान्न गुणः "म्रियतेर्लुङ्लिङोश्च'' इति लुङ्लिङ्विषयएव तङिति नियमादतोऽन्यत्र परस्मैपदमेव यद्येवमपूर्वविधिरस्तु सूत्रं किं ङित्वेन तत्क्रियते "तास्यनुदात्तेन्ङिददुपदेशाद्' इति विशेषणार्थं, तेन माहिमृतेत्यत्र लसार्वधातुकानुदात्तत्वं "धातोरन्त'' इति धातोरुदात्तत्वं भवति अत एव ङित्त्वसामर्थ्यात्सिज्लोपस्य पूर्वत्रासिद्धत्वं नेति लसार्वधातुकस्य ङितः परत्वं भवति अन्यथा प्रत्ययाद्युदात्तत्वे धातुरनुदात्तः स्यात् न च "तिङ्डतिङः''इति सर्वनिघातप्रसङ्गः "हि च''इति निषेधात् (मुमूर्षति) सनः कित्त्वे दीर्घोत्वरपरत्वदीर्घा "पूर्ववत्सनः'' इति तङत्र न भवति, नहि म्रियतिमात्रमात्मपनेपदस्य निमित्तं, किन्तु शिल्लुङ्लिङोऽपि न चात्र ते म्रियतेरनन्तराः सम्भवन्ति (मरीम्रीयते, ) "रीङ् ऋत'' इति रीङ् (मर्मरीति मर्मर्ति) इत्यादि (मारयति अमीमरत् मृत्वा मृतः मृतवान् ) न म्रियते इति ( अमृतम् ) "मतिबुद्धिपूजार्थेभ्यश्च'' इत्यत्रचकारस्यानुक्तसमुच्चयार्थत्वाद्वर्त्तमाने क्तः नञ्समासः ( अमरः ) पचाद्यच् पूर्ववत्समासः ( मृत्युः ) "भुजिमृङ्भ्यां युक्त्युकौ'' इति त्युक् अनुदात्तावात्मनेभाषौ19
कृदन्तरूपमाला
Sanskrit1 {@“मृङ् प्राणत्यागे”@} 2 ‘मृणाति हिंसार्थे प्वादेर्मृङस्तु म्रियते पदम्।।’ 3 इति देवः।
मारकः-रिका, मारकः-रिका, मुमूर्षकः-र्षिका, मेम्रीयकः-यिका
मर्ता- मर्त्री, मारयिता-त्री, मुमूर्षिता-त्री, मेम्रीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि जौहोत्यादिकपिपर्तिवत् 4 ज्ञेयानि।
5 म्रियमाणः 6, 7 मरिष्यन्-न्ती-ती, 8 9 मुमूर्षन्, 10 अमृतम्, 11 मरः-अमरः, 12 दुर्मरम्, 13 14 मुमूर्षा, 15 इतीचिप्रत्यये रूपमेवम्।
म्रियते इति मरीचिः = रश्मिः, ऋषिविशेषश्च।]] मरीचिः, 16 इत्युप्रत्यये रूपम्।
म्रियन्तेऽस्मिन् प्राणिनः सलिलार्थिन इति मरुः = जलतृणविवर्जितो देशः।]] मरुः, 17 इति त्युक्प्रत्यये, कित्त्वाद् गुणनिषेधे च रूपमेवम्।]] मृत्युः, 18 इत्यूकप्रत्ययः।
मरूकः = प्राणिविशेषः।]] मरूकः, 19 इत्युतिप्रत्यये रूपमेवम्।
मरुत् = वायुः, देवो वा।]] मरुत्, 20 इति तन्प्रत्यये रूपमेवम्।
मर्तः = प्राणी।
मर्तशब्दात्, ‘नवसूरमर्तयविष्ठेभ्यो यत्’ 21 इति स्वार्थे यत्प्रत्यये मर्त्यः इति सिद्ध्यति।
मर्त्यः = मनुष्यः।]] मर्तः-मर्त्यः इती- मान्यस्माद् भवन्तीति विशेषः।
01 (१३०१)
02 (६-तुदादिः-१४०३। अक। अनि। आत्म।)
03 (श्लो। ३४)
04 (१०४४)
05 [[२। शानचि, ‘तुदादिभ्यः--’ (३-१-७७) इति शप्रत्यये, ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशे इयङादेशे च रूपमेवम्।]]
06 [[आ। ‘म्रियमाणः स सुग्रीवं प्रोचे सद्भावमागतः।’ भ। का। ६। १४१।]]
07 [[३। ‘म्रियतेर्लुङ्लिङोश्च’ (१-३-६१) इत्यात्मनेपदस्य नियमितत्वात्, स्यप्रत्ययस्य च शित्प्रत्ययत्वादिनिदानाभावादत्र परस्मैपदं भवति। विस्तरस्तु माधवधातुवृत्त्या- दिषु बोध्यः। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमोऽत्रेति विशेषः।]]
08 [श्वा]
09 [[४। सन्नन्ताच्छतरि, ‘इको झल्’ (१-२-९) इति सनः कित्त्वात्, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे, ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युकारे, रपरत्वे च, ‘हलि च’ (८-२-७७) इति दीर्घः। अत्र, ‘पूर्ववत् सनः’ (१-३-६२) इति शानज् न, म्रियतिधातुमात्रस्यात्मनेपदनिमित्तत्वाभावात् शिल्लुङ्लिङां च निमित्तत्वात्। अतो यथासभ्भवं परस्मैपदप्रयोग उपपन्नः। तथा च भाष्ये (३-१-७) प्रयुक्तम् ‘श्वा मुमूर्षति’ इति। अत्र शुनश्चेतनत्वात् जीवितस्य प्रियत्वात् व्याध्याद्यभिभवेऽपि तिर्यक्त्वात् मर्तुमिच्छा नास्तीत्यत इच्छार्थकस्सन् न, अपि तु ‘आशंकायाम्--’ (वा। ३-१-७) इति वार्तिकेन आशंकने (आशंसने) सन्-इति बोध्यम्। शङ्के, श्वा मुमूर्षति (मुमूर्षन् अस्ति) इति वाक्यार्थः। स्पष्टमिदं ‘धातोः कर्मणः--’ (३-१-७) इत्यत्र भाष्य-कैय- टादिषु।]]
10 [[५। न म्रियते इत्यमृतम्। ‘मतिबुद्धिपूजार्थेभ्यश्च’ (३-२-१८८) इत्यत्र चका- रस्यानुक्तसमुच्चयार्थत्वात् वर्तमाने क्तः। ततो नञ्समासः।]]
11 [[६। पचाद्यचि--मरः। नञ्समासे अमरः = देवः।]]
12 [[B। ‘अकाले दुर्मरमहो यज्जीवामस्तया विना।।’ भ। का। ६। १४।]]
13 [पृष्ठम्१०४७+ २८]
14 [[आ। ‘ज्याघुष्टकठिनाङ्गुष्ठं राममायान्मुमूर्षया।।’ भ। का। ५। ५७।]]
15 [[१। ‘मृकणिभ्यामीचिः’ [द। उ। १-३८]
16 [[२। ‘भृमृ--’ [द। उ। १-९२]
17 [[३। ‘भुजिमृङ्भ्यां युक्त्युकौ [द। उ। १। १३५]
18 [[४। ‘मृकणिभ्यामूकोकणौ’ [द। उ। ३। ४४]
19 [[५। ‘मृग्रोरुतिः’ [द। उ। ६। १]
20 [[६। ‘हसिमृ--’ [द। उ। ६-७]
21 (वा। ५-४-३६)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
