| YouTube Channel

मृगशिरः (mRgaziraH)

 
Apte Hindi
Hindi
मृगशिरः
पुं*
मृग-शिरः -
पांचवें नक्षत्र का नाम जो तीन तारों का पुंज है
Wordnet
Sanskrit
Synonyms:
मृगशिरः, मृगशीर्षम्, आग्रहायणी
noun
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतपञ्चमनक्षत्रम्।
"मृगशिरः रोहिण्याः अनन्तरं वर्तमानं नक्षत्रम् अस्ति।"
Synonyms:
मृगशिरः, मृगशीर्षम्, आग्रहायणी
noun
सः कालः यदा चन्द्रमाः अश्विन्यादिषु सप्तविंशतिषु नक्षत्रेषु पञ्चमे नक्षत्रे वर्तते।
"तेन मृगशिरसि गृहप्रवेशस्य आयोजनं कृतम्।"
शब्दकल्पद्रुमः
Sanskrit
मृगशिरः, [स्]
क्ली,
(मृगस्येव शिरोऽस्य ।)सप्तविंशतिनक्षत्रान्तर्गतपञ्चमनक्षत्रम् तत्-पर्य्यायः मृगशीर्षम् आग्रहायणी ।इत्यमरः २३
(यथा, बृहत्संहिता-याम् १० ।“मृगशिरसि वत्सयाजक-यजमानार्य्यजनमध्यदेशाश्च ।”)तत्तु विडालपदाकृति तारात्रयात्मकं चन्द्राधि-दैवतम् इति ज्योतिषम्
गगनमध्ये तस्योदयेकन्यालग्नस्य द्वात्रिंशत्पलानि गतानि भवन्ति ।यथा, --“मूषिकाशनपदाकृतौ विधौव्योममध्यमिलिते त्रितारके ।शारदेन्दुमुखि ! कन्यकोदया-दीक्षणानलकलाः कलावति !
”इति कालिदासकृतरात्रिलग्ननिरूपणम्
तत्र जातफलम् यथा, --“शरासनाभ्यासरतो विनीतःसदानुरक्तो गुणिनां गुणेषु ।भक्तानुपस्नेहभरेण पूर्णःसन्मार्गवर्त्ती मृगजन्मभागी
”इति कोष्ठीप्रदीपः