| YouTube Channel

मृगनाभिः (mRganAbhiH)

 
Apte Hindi
Hindi
मृगनाभिः
पुं*
मृग-नाभिः -
कस्तूरी
मृगनाभिः
पुं*
मृग-नाभिः -
हरिण जिसकी नाभि में कस्तूरी होती हैं
शब्दकल्पद्रुमः
Sanskrit
मृगनाभिः,
पुं,
(मृगस्य नाभिः तदभ्यन्तरेजातत्वात् तथात्वम् ।) कस्तूरी तत्पर्य्यायः ।“मृगनाभिर्मृगमदः कथितस्तु सहस्रभित् ।कस्तूरिका कस्तूरी बोधमुख्या सा स्मृता
”सा त्रिविधा यथा, --‘कामरूपोद्भवा कृष्णां नेपाली नीलवर्णयुक् ।काश्मीरी कपिलच्छाया कस्तूरी त्रिविधास्मृता
कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् ।काश्मीरदेशसंभूता कस्तूरी ह्यधमा स्मृता
’अस्या गुणाः ।‘कस्तूरिका कटुस्तिक्ता क्षारोष्णा शुक्रला गुरुः ।कफवातविषच्छद्दिशीतदौर्गन्ध्यदोषहृत्
’इति भावप्रकाशः
अन्यत् कस्तूरीशब्दे द्रष्टव्यम्
(तथास्यपर्य्यायान्तरम् ।‘मृगनाभिर्मृगमदो मदः कस्तूरिकाण्डजः ।’इति वैद्यकरत्नमालायाम्
)