| YouTube Channel

मूल्यं (mUlyaM)

 
शब्दकल्पद्रुमः
Sanskrit
मूल्यं,
क्ली,
(मूलेन आनाम्यते अभिभूयते मूलेन-समं वा इति मूल + “नौवयोधर्म्मेत्यादिना ।”४ ९१ इति यत् ।) पटादीनामुत्पत्ति-कारणम् मूलं मूलेन क्रयविक्रयार्थमिदं ढघेकादिति यः इति भरतः
दर इति दामइति भाषा तत्पर्य्यायः वस्नः अव-क्रयः इत्यमरः १० ३९
(यथा, मनौ ३२२ ।“पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते ।शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत्
”)मूल्यते अर्प्यते इदम् माहिना इति भाडाइति भाषा तत्पर्य्यायः कर्म्मण्या २विधा भृत्या भृतिः भर्म्म वेतनम् ७भरण्यम् भरणम् निर्व्वेशः १० पणः ११ ।इति अमरः १० ३८
(यथा, मिताक्षरायाम् ।“मूल्येन यः कर्म्म करोति भृतकः ।”)
मूल्यं, त्रि, (मूलं रोपणमर्हतीति मूल + यत् ।)प्रतिष्ठायोम्यः रोपणयोग्यः इति मूलधात्वर्थ-दर्शनात्
(मूलत उत्पाट्यते इति “मूल-मस्यावर्हि ।” ८८ इति यत् मूलत-उत्पाटनयोग्ये मुद्गादौ
)