| YouTube Channel

मूलाधारः (mUlAdhAraH)

 
शब्दकल्पद्रुमः
Sanskrit
मूलाधारः,
पुं,
(मूलानामाधारः मूलं प्रधानंआधार इति वा ।) गुह्यलिङ्गयोर्मध्ये अङ्गुलि-द्वयमितस्थानम् तु शरीरस्थसकलनाडीनांमूलस्थानम् अत्र षं साक्षरयुक्तस्वर्ण-वर्णचतुर्द्दलपद्ममस्ति तन्मध्ये इच्छाज्ञानक्रिया-स्वरूपत्रिकोणं वर्त्तते तन्मध्ये कोटिसूर्य्यसम-प्रभस्वयम्मुलिङ्गमस्ति अत्र पृथिवी वर्त्तते ।तत्रैव मृणालसूत्रवत् सूक्ष्मसार्द्धत्रिबलयाकार-स्वयम्भुलिङ्गवेष्टितविद्युत्तुल्यप्रभकुलकुण्डलिनीवर्त्तते यथा, --“मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रिया-त्मके ।मध्ये स्वयम्भुलिङ्गन्तु कोटिसूर्य्यसमप्रभम्
तद्बाह्ये हेमवर्णाभं वर्णचतुर्द्दलम्
”इति तन्त्रसारः
“अथाधारपद्मं सुषुम्नास्यलग्नंध्वजाधो गुदोद्ध्वं चतुःशोणपत्रम् ।अधोवक्त्रमुद्यत्सुवर्णाभवर्णै-र्वकारादिसान्तैर्युतं वेदवर्णेः
अमुष्मिन् धरायाश्चतुष्कोणचक्रंसमुद्भासि शूलाष्टकैरावृतं तत् ।लसत्पीतवर्णं तडित्कोमलाङ्गंतदन्तः समास्ते धरायाः स्वबीजम्
वज्राख्या वक्त्रदेशे विलसति सततं कर्णिका-मध्यसंस्थंकोणं तत्त्रैपुराख्यं तडिदिव विलसत् कोमलंकामरूपम् ।कन्दर्पो नाम वायुर्विवसति सततं तस्य मध्येसमन्तात्जीवेशो बन्धुजीवप्रकरमभिहसन् कोटिसूर्य्य-प्रकाशः
तन्मध्ये लिङ्गरूपी द्रुतकनककलाकोमलःपश्चिमास्योज्ञानध्यानप्रकाशः प्रथमकिशलयाकाररूपःस्वयम्भूः ।भिद्यत्पूर्णेन्दुविम्बप्रकरकरचयस्निग्धसन्तान-हासीकाशीवासी विलासी विलसति सरिदावर्त्तरूपःप्रकारः
अस्योर्द्ध्वे विषतन्तुसोदरलसत् सूक्ष्मा जगन्मो-हिनीब्रह्मद्वारमुखं मुखेन मधुरं साच्छादयन्तीस्वयम् ।शङ्खावर्त्तनिभा नवीनचपलामाला विलासा-स्पदासुप्ता सर्पसमा शिरोपरिलसत्सार्द्धत्रिवृत्ता-कृतिः
”इति श्रीतत्त्वचिन्तामणौ षट्चक्रभेदः
*
तत्रस्थतीर्थानि यथा, रुद्रयामले ।“इडा मलस्थाननिवासिनी यासूर्य्यात्मिका या यमुनाप्रवाहिका ।तथा सुषुम्ना मलदेशगामिनीसरस्वती रक्षति मज्जनात्मकम्
मनोगतस्नानपरो मनुष्योमन्त्रक्रियायोगविशिष्टतत्त्ववित् ।महीस्थतीर्थे विमले जले मुदामूलाम्बुजे स्नाति सुमुक्तिभाग्भवेत्
सर्व्वाणि तीर्थे सुरतीर्थपावनीगङ्गा महासत्त्वविनिर्गता सती ।करोति पापक्षयमेव मुक्तिंददाति साक्षादमलार्थपुण्यदा