| YouTube Channel

मूलप्रकृतिः (mUlaprakRtiH)

 
Apte Hindi
Hindi
मूलप्रकृतिः
स्त्री*
मूलम्-प्रकृतिः -
सांख्यों का प्रधान या प्रकृति
शब्दकल्पद्रुमः
Sanskrit
मूलप्रकृतिः,
स्त्री,
(मूला चासौ प्रकृतिश्चेति ।)आद्या शक्तिः यथा, --“सर्व्वप्रसूता प्रकृतिः श्रीकृष्णः प्रकृतेः परः ।न शक्तः परमेशोऽपि तां शक्तिं प्रकृतिं विना ।सृष्टिं विधातुं मायेशो सृष्टिर्मायया विना
सा कृष्णे तिरोभूता सृष्टिसंहारकारके ।आविर्भूता सृष्टिकाले सा नित्या यथेश्वरः
कुलालश्च घटं कर्त्तुं यथाशक्तो मृदं विना ।स्वर्णं विना स्वर्णकारः कुण्डलं कर्त्तुमक्षमः
सा शक्तिः सृष्टिकाले पञ्चधा चेश्वरेच्छया ।राधा पद्मा सावित्री दुर्गा देवी सरस्वती
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः ।प्राणाधिकप्रियतमा सा राधा परिकीर्त्तिता
ऐश्वर्य्याधिष्ठातृदेवी सर्व्वमङ्गलकारिणी ।परमानन्दरूपा सा लक्ष्मीः परिकीर्त्तिता
विद्याधिष्ठातृदेवी या परमेशस्य दुर्लभा ।वेदशास्त्रयोगमाता सा सावित्री प्रकीर्त्तिता
बुद्ध्यधिष्ठातृदेवी या सर्व्वशक्तिस्वरूपिणी ।सर्व्वज्ञानात्मिका सर्व्वा सा दुर्गा दुर्गनाशिनी
वागाधिष्ठातृदेवी या शास्त्रज्ञानप्रदा सदा ।कृष्णकण्ठोद्भवा या सा देवी सरस्वती
पञ्चधादौ स्वयं देवी मूलप्रकृतिरीश्वरी ।ततः सृष्टिक्रमेणैव बहुधा कलया सा
थोषितः प्रकृतेरंशाः पुमांसः पुरुषस्य ।मायया सृष्टिकाले तद्विना भवेद्भवः
सृष्टिश्च प्रतिविश्वे ब्रह्मन् ! ब्रह्मोद्भवा सदा ।पाता विष्णुश्च संहर्त्ता शिवः शश्वच्छिवप्रदः
”इति ब्रह्मवैवर्त्तपुराणे गणपतिखण्डे ४० अः