| YouTube Channel

मूलः (mUlaH)

 
Wordnet
Sanskrit
Synonyms:
मूलम्, मूलः, मूलनक्षत्रम्
noun
सः कालः यदा चन्द्रमाः अश्विन्यादिषु सप्तविंशतिषु नक्षत्रेषु विंशतितमे नक्षत्रे वर्तते।
"मूले जातस्य बालकस्य तथा तस्य पित्रोः रक्षार्थे कानिचन् धार्मिकाणि अनुष्ठानानि क्रियन्ते।"
शब्दकल्पद्रुमः
Sanskrit
मूलः, त्रि, (मूलतीति मूलप्रतिष्ठायाम् + कः ।)अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतोनविंशनक्ष-त्रम् यथा, --“हस्ता स्वाती श्रवणा अक्लीवे मृगशिरो नपुंसि ।स्यात् पुंसि पुनर्व्वसुपुष्यौ मूलन्त्वस्त्री स्त्रियांशेषाः
”इति तिथ्यादितत्त्वम्
“मूलमाद्ये शिफायाञ्च निकटे भे तु वास्त्रि-याम् ।”इति शब्दरत्नावली
तु निरृतिदेवताकः इति ज्योतिस्तत्त्वम्
सिंहपुच्छाकारः इति मुहूर्त्तचिन्तामणिः
शङ्खमूर्त्तिर्नवतारामयश्च अस्मिन् मस्तकोप-र्य्युदिते मीनलग्नस्याष्टौ पलानि गतानि भवन्ति ।यथा, --“मौलिभाजि नवतारकाङ्कितेमूलभे सुतनु ! शङ्खमूर्त्तिनि ।लिप्तिकाष्टकमरालकुन्तलेनिर्जगाम पृथुरोमलग्नतः
”इति कालिदासकृतरात्रिलग्ननिरूपणम्
अस्मिन् नक्षत्रे जातस्य फलम् ।“मूलं विरुद्धावयवं समूलंकुलं दहत्येव वदन्ति सन्तः ।चेदन्यथातः पुरुषा विशेषात्सौभाग्यमायुश्च कुलानुवृद्धिः
”इति कोष्ठीप्रदीपः
अस्मिन् मांसभक्षणनिषेधो यथा, --“चित्रास्वहस्ताश्रवणासु तैलंक्षौरं विशाखाप्रतिपत्सु वर्ज्यम् ।मूले मृगे भाद्रपदासु मांसंयोषिन्मघाकृत्तिकसोत्तरासु
”इति तिथ्यादितत्त्वम्