| YouTube Channel

मूर्द्धावसिक्तः (mUrddhAvasiktaH)

 
शब्दकल्पद्रुमः
Sanskrit
मूर्द्धावसिक्तः,
पुं,
वर्णसङ्करभेदः तु क्षत्त्रियायांब्राह्मणेनोत्पादितः यथा, --“स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान्सुतान् ।सदृशानेव तानाहुर्म्मातृदोषविगर्हितान्
”इति मानवे १० अध्याये श्लोकः
*
‘स्त्रीष्विति आनुलोम्येन अव्यवहितवर्णजाती-यासु भार्य्यासु द्बिजातिभिर्य उत्पादिताःपुत्त्राः यथा ब्राह्मणेन क्षत्त्रियायां क्षत्त्रियेणवैश्यायां वैश्येन शूद्रायाम् तान् मातुर्हीन-जातीयत्वदोषेण गर्हितान् पितृसदृशान् तुपितृसजातीयान् मन्वादय आहुः पितृसदृश-ग्रहणात् मातृजातेरुत्कृष्टाः पितृजातितोनिकृष्टा ज्ञेयाः एतेषाञ्च नामानि मूर्द्धा-वसिक्तमाहिष्यकरणाख्यानि याज्ञवल्क्यादिभि-रुक्तानि वृत्तयश्चैषामुशनसोक्ताः हस्त्य-श्वरथशिक्षास्त्रधारणञ्च मूर्द्धावसिक्तानाम् ।नृत्यगीतनक्षत्रजीवनं शस्यरक्षा माहि-ष्याणाम् द्बिजातिशुश्रूषा धनधान्याध्यक्षताराजसेवा दुर्गान्तःपुररक्षा पारशवोग्र-करणानामिति इति तट्टीकायां कुल्लूक-भट्टः