| YouTube Channel

मूर्त्तिमान् (mUrttimAn)

 
शब्दकल्पद्रुमः
Sanskrit
मूर्त्तिमान्, [त्] त्रि, (मूर्त्तिरस्यास्ति मूर्त्ति +मतुप् ।) मूर्त्तिविशिष्टः यथा, --“मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरोमूर्त्तिमान् ।”इत्यादि श्रीभागवतम्
(यथा रघौ १२ ६४ ।“हृदयं स्वयमायातं वैदेह्या इव मूर्त्तिमत् ।”कुशपुत्रः यथा, हरिवंशे २७ १२ ।“कुशपुत्रा बभूवुर्हि चत्वारो देववर्च्चसः ।कुशिकः कुशनाभश्च कुशाम्बो मूर्त्तिमांस्तथा
”स्वियां ङीप् यथा, महाभारते १०८ १४ ।“दर्शयामास तं गङ्गा तदा मूर्त्तिमती स्वयम् ।”)