| YouTube Channel

मूर्त्तः (mUrttaH)

 
शब्दकल्पद्रुमः
Sanskrit
मूर्त्तः, त्रि, (मूर्च्छ + क्तः “राल्लोपः ।” २१ ।इति छलोपः “न ध्याख्यापॄमूर्च्छिमदाम् ।” ।२ ५७ इति निष्ठातकारस्य नत्वाभावः ।)मूर्च्छितः इत्यमरः ६१
कठिनः ।मूर्त्तिमान् इति मेदिनी ते, ४५
न्यायमते पृथिवी जलं तेजः वायुः मनश्च ।एषां गुणाः रूपं रसः गन्धः स्पर्शः परत्वंअरपत्वं गुरुत्वम् स्नेहः वेगश्च मूर्त्तामूर्त्त-साधारणगुणाः यथा, भाषापरिच्छेदे ।संख्या परिमितिः पृथक्त्वं संयोगः विभागश्च ।(यथा, मार्कण्डेये २३ ४७ ।“यच्चामूर्त्तं यच्च मूर्त्तं समस्तंयद्बा भूतेष्वेकमेकञ्च किञ्चित् ।यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वात्वत्सम्बन्ध त्वत्स्वरैर्व्यञ्जनैश्च
”)