| YouTube Channel

मूर्च्छितः (mUrcchitaH)

 
शब्दकल्पद्रुमः
Sanskrit
मूर्च्छितः, त्रि, (मूर्च्छास्य संजाता मूर्च्छा +तारकादित्वात् इतच् ।) मूर्च्छायुक्तः तत्-पर्य्यायः मूर्त्तः मूर्च्छालः इत्यमरः ।६ ६१
(यथा, भट्टौ २३ ।“तथाभ्यषिक्तवारीणि पितृभ्यः शोकमूर्च्छितः ।”)उच्छयः मूढः इति मेदिनी
वृद्धः इत्य-जयः
(व्याप्तः यथा, रामायणे ११४ १९-२०
“किं नु खल्वद्य गम्भीरो मूर्च्छितो निशाम्यते ।यथापुरमयोध्यायां गीतवादित्रनिस्वनः
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः ।चन्दनागुरुगन्धश्च प्रवाति समन्ततः
”)