| YouTube Channel

मूर्च्छना (mUrcchanA)

 
Shabdartha Kaustubha
Kannada
मूर्च्छना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸ್ವರದ ಬೆಳವಣಿಗೆ /ಧ್ವನಿಯು ವೃದ್ಧಿಹೊಂದುವುದು /ಸ್ವರಗಳ ಆರೋಹಣಾವರೋಹಣ ಕ್ರಮ
निष्पत्तिः - > मूर्छ्रा (मोहसमुच्छ्राययोः) - "युच्" (३-३-१२८)
प्रयोगाः - > "स्फुटीभवद्ग्रामविशेषमूर्छनामवेक्षमाणं महतीं मुहुर्मुहुः"
उल्लेखाः - > माघ० १-१०
विस्तारः - > "स्वरः सम्मूर्छितो यत्र रागतां प्रतिपद्यते मूर्छनामिति तामाहुः कवयो ग्रामसम्भवाम् ॥" - सा० द०
मूर्च्छना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮೂರ್ಚ್ಛೆರೋಗ
L R Vaidya
English
mUrcCanA {% f. %} 1. Fainting, swooning
2. the rise and fall of sounds in music (according to Mall.)
3. modulation, melody (according to others), भूयोभूयः स्वयमपि कृतां मूर्च्छनां विस्मरंती Megh.ii.23, वर्णानामपि मूर्च्छनांतरंगतं तारं विरामे मृदुम् Mrich.iii.
भूतसङ्ख्या
Sanskrit
२१, क्रतु, प्रकृति, बृन्द, मख, मूर्च्छ, मूर्च्छना, यज्ञ, वृन्द, समिधः, समित्, स्वर्, स्वः, स्वर्ग
शब्दकल्पद्रुमः
Sanskrit
मूर्च्छना,
स्त्री,
(मूर्च्छि + युच् टाप् ।) गीताङ्ग-विशेषः सा तु ग्रामस्य सप्तमभागः तस्यालक्षणं एकविंशतिनामानि यथा, --“स्वरः संमूर्च्छितो यत्र रागतां प्रतिपद्यते ।मूर्च्छनामिति तामाहुः कवयो ग्रामसम्भवाम्
ललिता मध्यमा चित्रा रोहिणी मतङ्गजा ।सौवीरी षण्डमध्या षड्जमध्यमपञ्चमा
मत्सरी मृदुमध्या शुद्धान्ता कलावती ।तीव्रा रौद्री तथा ब्राह्मी वैष्णवी स्वेदरी सुरा
नादावती विशाला त्रिषु यामेषु विश्रुताः ।एकविंशतिरित्युक्ता मूर्च्छना चन्द्रमौलिना
मूर्च्छनां कलयतो मुरशत्रो-र्वंशिकाध्वनिविशेषवितानैः ।मूर्च्छनां ययुरनङ्गशरौघै-रङ्गना रतिपतेरिव सेनाः
”इति सङ्गीतदामोदरः
हनूमन्मते षड्जादिस्वरत ऋषभादिस्वरोत्थानेयत्र स्वरो विरमति सा मूर्च्छना भरतमतेवाद्यस्य गानस्य वा समये यत्र हस्तस्य गलस्यवा कम्पनं सा मूर्च्छना सा एकविंशति-प्रकारा तत्र षड्जग्रामस्य मूर्च्छना ललिता१ मध्यमा चित्रा रोहिणी मतङ्गजा५ सौवीरो षण्डमध्या मध्यमग्रामस्यमूर्च्छना पञ्चमा मत्सरी मृदुमध्या ३शुद्धा अन्ता कलावती तीव्रा
गान्धारग्रामस्य मूर्च्छना रौद्री ब्राह्मी २वैष्णवी स्वेदरी सुरा नादावती ६विशाला इति सङ्गीतशास्त्रम्
वाचस्पत्यम्
Sanskrit
मूर्च्छना स्त्री मुच्छं--युच् “स्वरः संमूर्च्छितो यत्र रानतांप्रतिपद्यते मूर्च्छनामिति तां प्राहुः कवयो ग्रामस-म्भवाम्” इत्युक्ते गानाङ्गभेदे “स्फुटीभवद्ग्रामविशेषमूर्च्छनाम्” माघः