| YouTube Channel

मूत्राघातः (mUtrAghAtaH)

 
Apte Hindi
Hindi
मूत्राघातः
पुं*
मूत्रम्-आघातः -
मूत्रसंबंधी रोग
Wordnet
Sanskrit
Synonyms:
मूत्राघातः
noun
मूत्रावरोधकरोगविशेषः।
"मूत्राघातस्य द्वादश प्रकाराः सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
मूत्राघातः,
पुं,
(मूत्रस्याघातो निरोधो येन ।)प्रस्रावरोधकरोगविशेषः अथ मूत्राघातस्यविप्रकृष्ट सन्निकृष्टञ्च निदानं संख्याञ्चाह ।“प्रायोमूत्रविघाताद्यैर्व्वातकुण्डलिकादयः ।जायन्ते कुपितैर्दोषैर्मूत्राघातास्त्रयोदश
”मूत्रविघाताद्यैरित्याद्यशब्देन पुरीषशुक्रादिवेग-विघातानां रूक्षाशनादीनाञ्च ग्रहणम् मूत्र-विघाताद्यैः कुपितैर्दोषैरित्यन्वयः ननु मूत्र-कृच्छ्रमूत्राघातयोः को भेदः उच्यते मूत्र-कृच्छ्रे कृच्छ्रमधिकं विबन्धोऽल्पः मूत्राघाते तुविबन्धो बलवान् कृच्छ्रमल्पं इत्यनयोर्भेदः
*
वातकुण्डलिकाया निदानं संप्राप्तिं लक्षण-ञ्चाह ।“रौक्ष्याद्वेगविघाताद्बा वायुर्व्वस्तौ सवेदनः ।मूत्रमाविश्य चरति विगुणः कुण्डलीकृतः
मूत्रमल्पाल्पमथवा सरुजं संप्रवर्त्तते ।वातकुण्डलिकां तान्तु व्याधिं विद्यात् सुदा-रुणम्
”रौक्ष्यात् कायस्य वेगविघातात् मूत्रादि-वेगनिरोधात् आविश्य प्रावृत्य रौक्ष्यादिभि-र्वेगविघातादिभिश्च विगुणो दुष्टः कुण्डलीकृतोवायुर्वस्तौ मूत्राशये चरति प्रतिधावतिआबद्धत्वाद्भ्रमंस्तिष्ठति इत्यर्थः वात्यावत् ।मूत्रमिति तस्मान्मूत्रमल्पमल्पं सव्यथं प्रवर्त्तते ।तद्ब्याधिं वातकुण्डलिकामाहुः सुदारुणम् ।मारणात्मकत्वात्
*
अष्ठीलामाह ।“आध्मापयन् वस्तिगुदं रुद्ध्वा वातश्चलोन्नताम् ।कुर्य्यात्तीव्रार्त्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम्
”वातः वस्तिगुदं रुद्ध्वा अर्थात् तदन्तर्गतं मूत्रंमलञ्च निरुध्य वस्तिगुदं वस्तिं गुदञ्च आध्मा-पयन् आध्मानं कुर्व्वन् अष्ठीलां ष्ठीलातुल्यांव्याधिं कुर्य्यात् चलोन्नतां चलां उन्नताञ्च
वातवस्तिमाह ।“वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः ।निरुणद्धि मुखं तस्य वस्तेर्वस्तिगतोऽनिलः
मूत्रसङ्गो भवेत्तेन वस्तिकुक्षिनिपीडितः ।वातवस्तिः विज्ञेयो व्याधिः कष्टप्रसाधनः
”अकुशलो मूर्खः तस्य पुरुषस्य वस्तिमुखंनिरुणद्धि वस्तिगतो वायुः तेन वायुनामूत्रसङ्गो मूत्रविघातो भवति वस्तिकुक्षिनिपी-डित इति वस्तौ कुक्षौ निपीडितः संपी-डितो वायुरिति सम्बन्धः
मूत्रातीतमाह ।“चिरं धारयते मूत्रं त्वरया प्रवर्त्तते ।मेहमानस्य मन्दं वा मूत्रातीतः उच्यते
”मेहमानस्य मूत्रमुत्सृजतः मन्दं वा अल्पंवा
*
मूत्रजठरमाह ।“मूत्रस्य वेगेऽभिहते तदुदावर्त्तहेतुकः ।अपानः कुपितो वायुरुदरं पूरयेद्भृशम्
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनाम् ।तं मूत्रजठरं विद्यादधोवस्तिनिरोधनम्
”तदुदावर्त्तहेतुक इति मूत्रवेगधारणगणितो-दावर्त्तनिदानमाध्मानं कुर्य्यात् अधोवस्ति-निरोधनं वस्तेरधोदेशे विबन्धकारकम्
मूत्रोत्सङ्गमाह ।“वस्तौ वाप्यथवा नाले मणौ वा यस्य देहिनः ।मूत्रं प्रवृत्तं सज्येत सरक्तं वा प्रवाहतः
स्रवेच्छनैरल्पमल्पं सरुजं वाथ नीरुजम् ।विगुणानिलजो व्याधिः मूत्रोत्सङ्गसंज्ञितः
नाले मेढ्रे मणौ मेहनाग्रग्रन्थौ सज्येत निरुद्धंस्यात् सरक्तं सत् वा प्रवर्त्तते प्रवाहत इतिकण्ठहृद्बलेन सशब्दं मूत्रपुरीषवातानामधःप्रेरणं प्रवाहनं तेन कुपितेन वायुना वस्त्यादि-भेदात् सरक्तं मूत्रं स्रवेदित्यर्थः
मूत्रक्षय-माह ।“रूक्षस्य क्लान्तदेहस्य वस्तिस्थौ पित्तमारुतौ ।मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम्
”क्लान्तदेहस्य म्लानदेहस्य तदाह्वयं मूत्रक्षय-संज्ञम्
मूत्रग्रन्थिमाह ।“अन्तर्व्वस्तिमुखे वृत्तः स्थिरोऽल्पः सहसा भवेत् ।अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः उच्यते
”अन्तर्व्वस्तिसुखे वस्तिमुखस्याभ्यन्तरे अल्पःक्षुद्रामलकप्रमाणः नन्वस्य अश्मर्य्या सह कोभेदः उचय्ते अश्मरी क्रमशः सञ्चयेनस्यादयन्तु सहसा भवेदिति भेदः अपरोभेदः अश्मर्य्यां पित्तादिकं संहन्यते अत्र तुरक्तमेव यत उक्तं तन्त्रान्तरे ।“रक्तं वातकफाद्दुष्टं वस्तिद्वारे सुदारुणम् ।ग्रन्थिं कुर्य्यात् कृच्छ्रेण सृजेन्मूत्रं तदा-वृतम्
इति
मूत्रशुक्रमाह ।“मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्गतम् ।स्थानच्युतं मूत्रयतः प्राक् पश्चाद्बा प्रवर्त्तते ।भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते
”मूत्रितस्य मूत्रवेगयुक्तस्य शुक्रं स्थानात् च्युतंपश्चाद्वायुना उद्गतं ऊर्द्ध्वं नीतम् भस्मोदक-प्रतीकाशं भस्मसहितजलसदृशम्
उष्ण-वातमाह ।“व्यायामाध्वातपैः पित्तं वस्तिं प्राप्यानिला-वृतम् ।वस्तिं मेढ्रं गुदञ्चैव प्रदहत् स्रावयेदधः
मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा ।कृच्छ्रं पुनः पुनर्जन्तोरुष्णवातं वदन्ति तम्
”व्यायामादिविरोधत्वेन सौम्यधातुक्षयात् तेजो-वृद्ध्या पित्तवृद्धिः स्यात्तत्कुपितं पित्तं असंयुतंवस्तिं प्राप्य वस्त्यादिकं प्रदहत् मूत्रमधःस्रावयेत् कीदृशं हारिद्रं अथवा सरक्तंईषल्लोहितम्
१०
मूत्रसादमाह ।“पित्तं कफो द्बावपि वा संहन्येतेऽनिलेन चेत् ।कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत्
सरक्तं रोचनाशङ्खचूर्णवर्णं भवेत्ततः ।शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति हि
”संहन्येते घनीक्रियेते शुष्कं अल्पं समस्तवर्णंउक्तसकलवर्णयुक्तम्
११
विड्विघातमाह ।“रूक्षदुर्ब्बलयोर्घातेनोदावृत्तं शकृद् यदा ।मूत्रस्रोतोऽनुपद्येत विट्संसृष्टं तदा नरः
विड्गन्धं मूत्रयेत् कृच्छ्राद्बिड्विघातं तमा-दिशेत्
”उदावृत्तं ऊर्द्ध्वं नीतं विड्गन्धं वा वाशब्दो-ऽत्र योजनीयः
१२
*
वस्तिकुण्डलमाह ।“द्रुताध्वलङ्घनायासैरभिघातात् प्रपीडनात् ।स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत्
शूलस्यन्दनदाहार्त्तो बिन्दुबिन्दु स्रवत्यपि ।पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्त्तिमान्
वस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम् ।पवनप्रबलं प्रायो दुर्निरोधमबुद्धिभिः
तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता ।श्लेष्मणा गौरवं शोथो मूत्रं स्निग्धं घनं सितम्
”द्रुताध्वलङ्घनं शीघ्रं मार्गचलनम् उद्वृत्तःउत्थितः स्यन्दनं किञ्चिच्चलनम् घोरंमारकम् शस्त्रविषोपमं शस्त्रं खडगादितद्बच्छीघ्रमारकम् विषमत्र गरः तद्वत्विलम्बमारकम् एतावता मारकमवश्यं शीघ्रंविलम्बेन वा
१३
*
तस्यैवासाध्यस्य चलक्षणमाह ।“श्लेष्मरुद्धविलो वस्तिः पित्तोदीर्णो सिध्यति ।अविभ्रान्तविलः साध्यो यः कुण्डलीकृतः
स्याद्वस्तौ कुण्डलीभूते तृण्मोहः श्वास एव
”विलं वस्तिमुखरन्ध्रं पित्तोदीर्णः पित्तेनोद्धतः ।अविभ्रान्तविलः कफेनावृतविलः पश्चात् कुण्डली-कृतः साध्यः एतेन कुण्डलीभूतोऽसाध्यः ।कुण्डलीभूतस्य लक्षणमाह तृडित्यादि-कुण्डलीभूतस्यायमर्थः कफेन विलावरोधा-त्तत्र वातः कुण्डलाकारेण तिष्ठतीत्यर्थः
*
अथ मूत्राघातस्य चिकित्सा ।“नलकुशकाशेक्षुबलाक्वाथं प्रातः सुशीतलंससितम् ।पिबतो नश्यति नियतं मूत्रग्रह इत्युवाचकविः
”कविः शुक्रः ।“कर्पूररजसा युक्ता वस्त्रवर्त्तिः शनैः शनैः ।मेढ्रमार्गान्तरे न्यस्ता मूत्राघातं व्यपोहति
धान्यगोक्षुरकः क्वाथः कल्कसिद्धं हितं घृतम् ।मूत्राघाते मूत्रकृच्छ्रे शुक्रदोषे दारुणे
”धान्यगोक्षुरकं घृतम् ।“मूत्रकृच्छ्रेऽश्मरीरोगे भेषजं यत् प्रकीर्त्तितम् ।मूत्राघातेषु सर्व्वेषु तत् कुर्य्याद्देशकालवित्
”इति मूत्राघाताधिकारः इति भावप्रकाशः
गरुडपुराणोक्तनिदानं तस्य १६३ अध्यायेद्रष्टव्यम्
(तथास्य विषयः ।“वस्तिवस्तिशिरोमेढ्रकटीवृषणपायवः ।एकसम्बन्धनाः प्रोक्ता गुदास्थिविवराश्रयाः
अधोमुखोऽपि वस्तिर्हि मूत्रवाहिसिरामुखैः ।पार्श्वेभ्यः पूर्य्यते सूक्ष्मैः स्यन्दमानैरनारतम्
यैस्तैरेव प्रविश्यैनं दोषाः कुर्व्वन्ति विंशतिम् ।मूत्राघातान् प्रमेहांश्च कृच्छ्रान्मर्म्मसमाश्रयान्
”इति वाग्भटे निदानस्थाने नवमेऽध्याये
अथास्य पथ्यापथ्यानि ।“अभ्यञ्जनस्नेहविरेकवस्ति-स्वेदावगाहोत्तरवस्तयश्च ।पुरातना लोहितशालयश्चमांसानि धन्वप्रभवानि मद्यम्
तक्रं पयोदध्यपि माषयूषःपुराणकुष्माण्डफलं पटोलम् ।महार्द्रकं तालफलास्थिमज्जाहरीतकीकोमलनारिकेलम्
गुवाकखर्ज्जूरकनारिकेल-तालद्रुमाणामपि मस्तकानि ।यथामलं सर्व्वमिदञ्च मूत्रा-घातातुराणां हितमावहन्ति
विरुद्धानि सर्व्वाणि व्यायामं मार्गशीलनम् ।रूक्षं विदाहिविष्टम्भिव्यायामं वेगधारणम् ।करीरं वमनञ्चापि मूत्राघाती विवर्ज्जयेत्
”इति वैद्यकपथ्यापथ्यविधिग्रन्थे मूत्राघाताधि-कारे
)