| YouTube Channel

मूत्रकृच्छ्र (mUtrakRcchra)

 
शब्दसागरः
English
मूत्रकृच्छ्र
n.
(-च्छ्रं)
1. Strangury.
2. Urinary affection in general, as
gravel, &c.
E.
मूत्र urine, कृच्छ्र pain.
Yates
English
मूत्र-कृच्छ्र (च्छ्रं) 1.
n.
Strangury.
Spoken Sanskrit
English
मूत्रकृच्छ्र mUtrakRcchra
m.
class of urinary affections
वीतराग vItarAga
adj.
free from passions or affections
वीतत्रसरेणु vItatrasareNu
adj.
free from passions or affections
भाव bhAva
m.
seat of the feelings or affections
वैरक्त vairakta
n.
freedom from affections or passions
वैरक्त्य vairaktya
n.
freedom from affections or passions
जठर jaThara
n.
certain morbid affections of the bowels
सर्वसङ्गपरित्याग sarvasaGgaparityAga
m.
abandonment of all worldly affections or connections
Wilson
English
मूत्रकृच्छ्र
n.
(-च्छ्रं)
1 Strangury.
2 Unrinary affection in general, as gravel, &c.
E.
मूत्र urine, and कृच्छ्र pain.
Monier Williams Cologne
English
मूत्र—कृच्छ्र
m.
n.
painful discharge of u°, strangury (°रिन्
mfn.
suffering from a painful discharge of urine),
Suśr.
a class of urinary affections (of which 8 kinds are enumerated),
ŚārṅgS.
Shabdartha Kaustubha
Kannada
मूत्रकृच्छ्र
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಉರಿಮೂತ್ರ /ಅಶ್ಮರೀಮೂತ್ರ /ಮೂತ್ರರೋಗ
व्युत्पत्तिः - > मूत्रे कृच्छ्रम्
L R Vaidya
English
mUtra-kfcCra {% n. %} painful discharge of urine.
Sanskrit Tibetan
Tibetan
gcin sri ba
मूत्रकृच्छ्र
अभिधानचिन्तामणिः
Sanskrit
--source--
अश्मरी स्यान्मूत्रकृच्छ्रे प्रमेहो बहुमूत्रता ४७०
-wordlist-
अश्मरी (स्त्री), मूत्रकृच्छ्र (क्ली), प्रमेह (पुं), बहुमूत्रता (स्त्री)
अमरकोशः
Sanskrit
Word: मूत्रकृच्छ्रम्
Root: मूत्रकृच्छ्र
Gender: नपुं
Number: all
Meaning(s):
painful discharge of urine
Shloka(s):
2|6|56|3 अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु॥ (मनुष्यवर्गः)
Synonym(s):
2|6|56|3 अश्मरी (अश्मरी) (स्त्री)
2|6|56|3 मूत्रकृच्छ्रम् (मूत्रकृच्छ्र) (नपुं)
Related word(s):
परा_अपरासंबन्धः रोगः
जातिः अवस्था
शब्दकल्पद्रुमः
Sanskrit
मूत्रकृच्छ्रं,
क्ली,
(मूत्रे कृच्छ्रम् मूत्रजन्यंकृच्छ्रमिति वा ।) रोगविशेषः तत्पर्य्यायः ।मूत्ररोघः अश्मरी कृच्छ्रम् इतिराजनिर्घण्टः
*
अथ मूत्रकृच्छ्राधिकारः ।तत्र मूत्रकृच्छ्रस्य विप्रकृष्टं निदानमाह ।“व्यायामतीक्ष्णौषधरूक्षमद्य-प्रसङ्गनृत्यद्रुतपृष्ठयानात् ।आनूपमत्स्याध्यशनादजीर्णातस्युर्मूत्रकृच्छ्राणि नृणां तथाष्टौ
”तीक्ष्णौषधं राजिकाशूरणादियुक्तम् रूक्षेतिमद्यविशेषणम् प्रसङ्गः सततं सेवा नृत्यंनर्त्तनम् नित्येति द्विविधः पाठः द्रुतपृष्ठ-यानात् अश्वादिना गमनात् आनूपं प्रचुर-जलदेशभवं भक्ष्यम् अष्टौ वातिकपैत्तिक-श्लैष्मिकसान्निपातिकशल्यजपुरीषजशुक्रजाश्मरीजानि तस्य संप्राप्तिपूर्व्वकं लक्षणमाह ।“पृथङ्मलाः स्वैः कुपिता निदानैःसर्व्वेऽथवा कोपमुपेत्य वस्तौ ।मूत्रस्य मार्गं परिपीडयन्तियदा तदा मूत्रयतीह कृच्छ्रात्
”तेषु वातिकमाह ।“तीव्रा रुजो वङ्क्षणवस्तिमेढ्रेस्वल्पं मुहुर्मूत्रयतीह वातात् ।”तीव्रा मारणात्मिका वङ्क्षणावूरुमेढ्राणामन्त-रालसन्धी
*
पैत्तिकमाह ।“पीतं सरक्तं सरुजं सदाहंकृच्छ्रं मुहुर्मूत्रयतीह पित्तात् ।”कृच्छ्रमिति क्रियाविशेषणम्
श्लैष्मिकमाह ।“वस्तेः सलिङ्गस्य गुरुत्वशोथौमूत्रं सपिच्छं कफमूत्रकृच्छ्रे ।”सपिच्छं पिच्छिलम्
सान्निपातिकमाह ।सर्व्वाणि रूपाणि सन्निपातात्भवन्ति तत् कृच्छ्रतमं हि कृच्छ्रम्
”कृच्छ्रं मूत्रकृच्छ्रम्
*
शल्यजमाह ।“मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु वा ।मूत्रकृच्छ्रं तदाघाताज्जायते भृशदारुणम्
वातकृच्छ्रेण तुल्यानि तस्य लिङ्गानि निर्द्दिशेत् ।”मूत्रवाहिषु स्रोतःसु शल्येन कण्टकेन क्षतेषुसक्षतीकृतेषु अथवा अभिहतेषु मुद्गरादिभि-रभिहतेषु तदाघातात् मूत्रमार्गाघातात्मूत्रकृच्छ्रं जायते भृशदारुणं मारकं तस्यशल्यजस्य
*
पुरीषजमाह ।“शकृतस्तु प्रतीघाताद्बायुर्विगुणतां गतः ।आध्मानं वातशूलञ्च मूत्रकृच्छ्रं करोति
”प्रतीघातात् निरोधात् विगुणतां दुष्टताम्
शुक्रजमाह ।“शुक्रदोषैरुपहते मूत्रमार्गे विधारिते ।सशुक्रं मूत्रयेत् कृच्छ्राद्वस्तिमेहनशूलवान्
”उपहते दूषिते
*
अश्मरीजमाह अश्मरी-हेतुकञ्चापि मूत्रकृच्छ्रमुदाहृतम् सुश्रुतैःशर्कराजमपि मूत्रकृच्छ्रमुक्तमत्र तु तस्य नव-संख्यानिरासार्थमश्मरीशर्करयोः साम्यमाह ।“अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे ।विशेषणं शर्करायाः शृणु कीर्तयतो मम
”सम्भवः कारणम् ।“पच्यमानाश्मरी पित्ताच्छोष्यमाणा चवायुना ।विमुक्तकफसन्धाना क्षरन्ती शर्करा मता
”पित्तेन पच्यमाना मूत्रशुक्रश्लेष्मसंहतिः प्रथमंपित्तेन बन्धनकर्म्मणा पच्यमाना पश्चाद्बातेनशोषिता कफेनाश्लिष्टा अश्मरी सैव विमुक्तकफसन्धाना त्यक्तकफाश्लेषा सती शर्करारूपामूत्रमार्गात् क्षरन्ती शर्करा मता एतावताकिञ्चिदेव भेदः
*
शर्कराया उपद्रवानाह ।“हृत्पीडा वेपथुः शूलं कुक्षावग्निश्च दुर्बलः ।तया भवति मूर्च्छा मूत्रकृच्छ्रञ्च दारुणम्
”शूलं कुक्षावित्यन्वयः तया शर्करया
*
अथ मूत्रकृच्छ्रस्य चिकित्सा ।“त्रिकण्टकारग्वधदर्भकाश-यवासधात्रीगिरिभेदपथ्याः ।विघ्नन्ति पीता मधुनाश्मरीञ्चसमीपमृत्योरपि मूत्रकृच्छ्रम्
”त्रिकण्टादिक्वाथः
“एलाश्मभेदकशिलाजतुगोक्षुराणा-मेर्व्वारुबीजलवणोत्तमकुङ्कुमानाम् ।चूर्णानि तण्डुलजले तुलितानि पीत्वाप्रत्यक्षमृत्युरपि जीवति मूत्रकृच्छ्री
”एलादिचूणम्
“अयोरजः सूक्ष्मपिष्टं मधुना सह योजितम् ।मूत्रकृच्छ्रं निहन्त्याशु संलीढं दिवसत्रयात्
गुडेन मिश्रितं क्षीरं कटूष्णं कामतः पिबेत् ।मूत्रकृच्छ्रेषु सर्व्वेषु शर्करायाञ्च नित्यश
धात्रीरसञ्चेक्षुरसं पिबेद्वाकृच्छ्रे सरक्ते मधुना निमिश्रम् ।शल्याभिघातोत्थितमूत्रकृच्छ्रेकार्य्या क्रिया मारुतकृच्छ्रतुल्या
क्वाथो गोक्षुरबीजस्य यवक्षारसमन्वितः ।पीतः प्रशमयत्येव कृच्छ्रं विड्धारणोत्थितम्
त्रिफलायाः सुपिष्टायाः कल्कं कोलसमन्वितम् ।वारिणा लवणीकृत्य पिबेन्मूत्ररुजापहम्
कोलं वदरम् ।गुडमामलकं वृष्यं श्रमघ्नं तर्पणं प्रियम् ।पित्तासृग्दाहशूलघ्नं मूत्रकृच्छ्रहरं परम्
सपादशाणतुलितो यवक्षारः सितायुतः ।भक्षितो नाशयत्येव मूत्रकृच्छ्रं संशयः
द्राक्षासितोपलाकल्कः पीतः कर्षमितो नरैः ।मस्तुना पलमात्रेण मूत्रकृच्छ्रं व्यपोहति
१०
समूलगोक्षुरक्वाथः सितामाक्षिकसंयुतः ।नाशयेन्मूत्रकृच्छ्राणि तथैवोष्णसमीरणम्
११
उष्णसमीरणं उष्णवातं मूत्राघातविशेषम् ।इति भावप्रकाशः
(तथास्य चिकित्सा-प्रकारान्तरम् ।“सुशीतलं जलं कर्षमात्रं स्यात् मूत्रकृच्छ्रहृत् ।दध्यम्बुना संमिश्रमयश्चूर्णं सुखप्रदम्
मूत्रकृच्छ्रे यवक्षारचूर्णं हिङ्गुप्रयोजितम् ।कुष्माण्डञ्च समादाय शर्करासहितं पिबेत्
यो हि त्रिदोषसम्भूतमूत्रकृच्छ्रनिवारणः
”“आरग्वधफलं मूलं दुरालभा धान्यकशता-वर्य्यः ।पाषाणभेदपथ्ये क्वाथोऽयं मूत्रकृच्छ्रे स्यात्
”इति हारीते चिकित्सितस्थाने २९ अध्याये
अथात्र पथ्यानि ।“अथो यथादोषमयं गणोऽपिपुरातना लोहितशालयश्च ।तक्रं पयो दध्यपि गोप्रसूतंधन्वामिषं मुद्गरसाः सिता
पुराणकुष्माण्डफलं पटोलंमहार्द्रकं गोक्षुरकः कुमारी ।गुवाकखर्ज्जू रकनारिकेल-तालद्रुमाणाञ्च शिरांसि पथ्या
तालास्थिमज्जात्रपुषं त्रुटिश्चशीतानि पानान्यशनानि चापि ।प्रनीरनीरं हिमबालुका चमित्रं नृणां स्यात् सति मूत्रकृच्छ्रे
”अथापथ्यानि ।“मद्यं श्रमं निधुवनं गजवाजियानंसर्व्वं विरुद्धमशनं विषमाशनञ्च ।ताम्बूलमत्स्यलवणार्द्रकतैलभृष्टंपिन्याकहिङ्गुतिलसर्षपवेगरोधान्
माषान् करीरमतितीक्ष्ण विदाहिरूक्ष-मम्लञ्च मुञ्चतु जनः सति मूत्रकृच्छ्रे
”इति वैंद्यकपथ्यापथ्यविधिग्रन्थे मूत्रकृच्छ्राधि-कारे
)
वाचस्पत्यम्
Sanskrit
मूत्रकृच्छ्र
न०
रोगभेदे “व्यायामतीक्ष्णौषधरूक्षमद्य-प्रसङ्गनृत्यद्रुतपृष्ठयानात् आनूपषत्स्याध्यशनादनीर्णात्स्युर्मूत्रकृच्छ्राणि शृणां तथाष्टौ” भावप्र०