| YouTube Channel

मूत्रं (mUtraM)

 
Apte 1890
English
मूत्रं Urine
नाप्सु मूत्रं समूत्सृजेत् Ms. 4. 56
मूत्रं चकार ‘made water’.
Comp.
आघातः a urinary disease.
आशयः the lower belly.
उत्संग see मूत्रसंग
कृच्छ्र painful discharge of urine, strangury.
कोशः the scrotum.
क्षयः insufficient secretion of urine.
ग्रथिः a knot or induration on the neck of the bladder.
जठरः
रं the swelling of the belly caused by retention of urine.
दोषः a urinary disease.
निरोधः retention of urine.
पतनः a civetcat.
पथः the urinary passage.
परीक्षा uroscopy or examination of urine.
पुटं the lewer belly
मार्गः,
प्रसेकः the urethra.
वर्धक a. diuretic.
वृद्धिः f. copious secretion of urine.
शकृत् n. urine and excrement.
शुक्रं a disease in which semen is discharged along with urine.
शूलः
लं urinary colic.
संगः urinary obstruction, a painful and bloody discharge of urine.
शब्दकल्पद्रुमः
Sanskrit
मूत्रं,
क्ली,
(मूत्र्यते इति मूत्र + घञ् लोका-श्रयत्वात् क्लीवत्वम् यद्बा, सुच्यते त्यज्यते इति ।मूच + “सिविमुच्योष्टेरू ।” उणा० १६२ ।इति ष्ट्रन् किद्भवति टेरूकारादेशः ।)उपस्थनिर्गतजलम् तत्पर्य्यायः प्रस्रावः ।इत्यमरः ६७
मेहनम् इतिजटाधरः
गुह्यनिस्यन्दः स्रवणम् स्रवः६ इति राजनिर्घण्टः
*
(अस्योत्पत्ति-विषयो यथा, --“आहारस्य रसः सारः सारहीनो मलद्रवः ।शिराभिस्तज्जलं नीतं वस्तौमूत्रत्वमाप्नुयात्
”इति पूर्व्वखण्डे चतुर्थेऽध्याये शार्ङ्गधरेणोक्तम्
“विस्तिपूरणविक्लेदकृन्मूत्रम् ।”तथास्य क्षयवृद्धिलक्षणं यथा, --“मूत्रक्षये वस्तितोदोऽल्पमूत्रता ।”“मूत्रं मुहुर्मुहुः प्रवृत्तिं वस्तितोदमाध्मानश्च ।”इति सुश्रुते सूत्रस्थाने पञ्चदशेऽध्याये
तथास्य दोषादि विकृतस्य परीक्षा लक्षणम्
“वातेन पाण्डुरं मूत्रं रक्तनीलञ्च पित्ततः ।रक्तमेव भवेद्रक्तात् धवलं फेनिलं कफात्
”इति भावप्रकाशस्य पूर्व्वखण्डे द्बितीये भागे
)तस्योत्सर्गविधिर्यथा, --“दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।कुर्य्यान्मूत्रपुरीषे तु रात्रौ वै दक्षिणामुखः
”इति गारुडे ९४ अध्यायः
अपि ।“मूत्रोच्चारसमुत्सर्गं दिवा कुर्य्यादुदङ्मुखः ।दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा
इति मनुः ५०
“कृत्वा यज्ञोपवीतन्तु पृष्ठतः कण्ठलम्बितम् ।विण्मूत्रे गृही कुर्य्याद् यद्बा कर्णे समा-हितः
”इति यमः
यद्येकवस्त्रो यज्ञोपवीतं कर्णे कृत्वा अवगुण्ठितइति कर्णे दक्षिणकर्णे इति सांख्यायनः
“छायायामन्धकारे वा रात्रावहनि वा द्विजः ।यथासुखमुखः कुर्य्यात् प्राणबाधभयेषु
*
मूत्रं पथि कुर्व्वीत भस्मनि गोव्रजे ।न फालकृष्टे जले चित्यां पर्व्वते
जीर्णदेवायतने वल्मीके कदाचन ।न ससत्त्वेषु गर्त्तेषु गच्छन्नापि संस्थितः
नदीतीरमासाद्य पर्व्वतमस्तके ।वाय्वग्निविप्रानादित्यमपः पश्यंस्तथेव गाः ।न कदाचन कुर्व्वीत विण्मूत्रस्य विसर्जनम्
”इति मनुः ४५ -- ४८
*
“आहारनिर्हारविहारयोगाःसुसंवृता धर्म्मविदा तु कार्य्याः ।वाग्गुप्तिकार्य्याणि तपस्तथैवधनायुषी गुप्ततमे तु कार्य्ये
”इति वशिष्ठः
निर्हारो मूत्रपुरीषोत्सर्गः
*
“सोमाग्न्यर्काम्बुवायूनां पूज्यानाञ्च संमुखे ।कुर्य्यात् ष्ठीवनविण्मूत्रसमुत्सर्गञ्च पण्डितः
”इति विष्णुपुराणम्
सोपानत्को मूत्रपुरीषे कुर्य्यादिति ।इत्यापस्तम्बः ।“करगृहीतपात्रेण कृत्वा मूत्रपुरीयके ।मूत्रतुल्यन्तु पानीयं पीत्वा चान्द्रायणञ्चरेत्
”इति बृहम्मनुः
*
गृहीतजलपात्रस्य मूत्रोत्मर्गे दोषो यथा, --“वारिपात्रं करे धृत्वा मूत्रं त्यजति यो नरः ।सुरापात्रसमं पात्रं तज्जलं मदिरासमम्
”इति कर्म्मलोचनम्
*
सशब्दमूत्रस्य दोषो यथा, --“निःस्वाः सशब्दमूत्राः स्युर्नृपा निःशब्दधारया ।भोगाढ्याः समजठरा निःस्वाः स्युर्घट-सन्निभाः
”इति गारुडे ६३ अध्यायः
*
“विष्णुक्रान्ताजमूत्रेण चौरव्याव्रादिरक्षणम् ।”इति तत्रैव १८८ अध्यायः
*
अथ गोमूत्र-गुणाः तीक्ष्णत्वम् उष्णत्वम् लवणत्वम् ।पित्तकारित्वम् कटुत्वम् लघुत्वम् रूक्ष-त्वम् कृम्युदरानाहशोथार्शोविषकुष्ठनाशि-त्वञ्च इति राजवल्लभः