| YouTube Channel

मुह (muha)

 
Wilson
English
मुह r. 4th cl. (ऊ) मुहू (मुह्यति) To be foolish, to be
incapable of discrimination or judgment, to be bereft of sense or wisdom.
L R Vaidya
English
muha {% vi. 4P (pp. मूढ or मुग्ध
pres. मुह्यति) %} 1. To faint, to lose consciousness, शुश्रुवांस्तद्वचनं मुमोह Bt.i.20
2. to be bewildered, to lose presence of mind
3. to err, to mistake
4. to be foolish.With प्र-, to be infatuated, to be stupefied.With वि-, 1. to be perplexed, to be confused, to be embarrassed, नैनां प्राप्य विमुह्यति Bg.ii.72
2. to be foolish.With सम्-, to be foolish, to be ignorant.
muha {% Caus. (मोहयति-ते) %} to infatuate, मामूमुहत्खलु भवंतमनन्यजन्मा M.M.i.With परि-, (Atm.) to allure, to beguile, Bt.viii.63.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मुह्
मूलधातुः:
मुह
धात्वर्थः:
वैचित्ये
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मुह्यति
अनुबन्धादिविशेषः:
पुषादिः
धातुप्रदीपः
Sanskrit
मुहँ मुह वैचित्त्ये
- मुह्यति मोग्धा मोढा मोहिता मोहिष्यति मोक्ष्यति अमुहत् मुग्धः मूढः मुक् मुट् मोहकः 92
शब्दकल्पद्रुमः
Sanskrit
मुह यौ क्ति वैचित्त्ये इति कविकल्पद्रुमः
(दिवा०-पर०-अक०-सेट् रुधादित्वाद्वेट् ।)वैचित्त्यं ज्ञानरहितीभावः य, तेन मुह्यतिचिराय मे मनः इति मुरारिः मोहि-ष्यति मोक्ष्यति अमुहत् ञि मुग्धःमूढोऽस्ति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
मुह मोहे वैचित्त्ये दि०
उभ०
अक० सेट् मुह्यति ऌदित्अमुहत् ऊदित् मोहिता, मोग्धा, मोढा ञीत् ।मूढोऽस्ति
क्षीरतरङ्गिणी
Sanskrit
मुहँ मुह वैचित्ये
-(अर्थविवरणम्) वैचित्त्यमविवेकः
मुह्यति मोग्धा, मोढा, मोहिता मुग्धः, मूढः अमुहत् पादसि (1389) इति तङ्-परिमोहयते मुहेः खो मूर्च (उ0 522)-मूर्खः 86
धातुवृत्तिः
Sanskrit
मुहँ मुह (अर्थः) वैचित्ये
(अर्थविवरणम्) वैचित्यमविवेकः
( मुह्यति मुमोह, मुमुहतुः, मुमुहिथ, मुमोग्ध, मुमोढ, मुमुहिथ, मुमुह्व मोहिता, मोग्धा, मोढा मोहिष्यति, मोक्ष्यति मुह्यतु, अमुह्यत् मुह्येत् मुह्यात् अमुहत् मुमुहिषति, मुमोहिषति, मुमुक्षति मोमुह्यते मोमोग्धि मोमोढि मोहयति ) चित्तवत्कर्तृकत्वे "अणावकर्मकात्'' इति परस्मैपदमेव परिपूर्वत्वे तु "न पादमि'' इत्यादिना निषेधात् "णिचश्च'' इत्यादिना उभयं भवति, (परिमोहयति, परिमोहयते ) इति ( परिमोही ) सम्पृचादिना घिनुण् ( मुहित्वा, मोहित्वा, मुग्ध्वा, मूढ्वा मुग्धः मूढः उन्मुक्, उन्मुट् ) द्रुहिवक्रिया भष्भावस्तु बशभावान्न भवति ( मूर्खः ) "मुहेः खो मूर्चः'' इति खप्रत्ययो मूरादेशश्च 90
कृदन्तरूपमाला
Sanskrit
1 {@“मुह वैचित्त्ये”@} 2 रधादिः।
वैचित्त्यम् = विचित्तता, अविवेकः।
मोहकः-हिका, मोहकः-हिका, 3 मुमुहिषकः-मुमोहिषकः-मुमुक्षकः-क्षिका, 4 मोमुहकः-हिका
मोहिता-त्री, 5 मोग्धा-ध्री, मोढा-ढ्री, मोहयिता-त्री, मुमोहिषिता-मुमुहिषिता-मुमुक्षिता-त्री, मोमुहिता-त्री
मुह्यन्-न्ती, 6 मोहयन् परिमोहयन्-न्ती, 7 परिमोहयमाणः, इत्यादीनि सर्वाण्यपि प्रातिस्विकरूपाणि विना दैवादिकद्रुह्यतिवत् 8 ज्ञेयानि।
9 परिमोही, 10 क्विपि उन्मुक्, उन्मुट्, 11 इति खप्रत्यये, धातोः ‘मूर्’ इत्यादेशे रूपमेवम्।]] मूर्खः इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२९३)
02
=>
(४-दिवादिः-११९८। अक। वेट्। पर।)
03
=>
[[४। ‘रधादिभ्यश्च’ (७-२-४५) इति इड्विकल्पः। इट्पक्षे, ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। इडभावपक्षे, ‘वा द्रुहमुह--’ (८-२-३३) इति घत्वपक्षे, चर्त्वे षत्वे मुमुक्षकः इति रूपम्। इडभावपक्ष एव, ढत्वपक्षे, ‘षढोः कः सि’ (८-२-४१) इति कत्वेऽपि मुमुक्षक इति रूपं तुल्यमेव। एवं सन्नन्ते सर्वत्र रूपत्रय(चतुष्टय)स्य निष्पत्तिर्ज्ञेया।]]
04
=>
[पृष्ठम्१०४३+ ३१]
05
=>
[[१। रधादित्वादिड्विकल्पः। इडभावपक्षे घत्वविकल्पः। तेन रूपत्रयं तृजादिषु सर्वत्र ज्ञेयम्।]]
06
=>
[[२। मोहस्य चित्तवत्कर्तृकत्वात् मोहयन् इत्यत्र, ‘अणावकर्मकात् चित्तवत्कर्तृ- कात्’ (१-३-८८) इति ण्यन्ताच्छतैव। परिमोहयन् परिमोहयमाणः इत्यत्र तु ‘न पादम्याङ्यमाङ्यसपरिमुह--’ (१-३-८९) इति परस्मैपद निषेधात् चित्त- वत्कर्तृकत्वेऽकर्मकत्वेऽपि ‘णिचश्च’ (१-३-७४) इति उभयपदं भवतीति ज्ञेयम्।]]
07
=>
[[आ। ‘परिमोहयमाणाभी राक्षसीभिः समावृताः।।’ भ। का। ८-६३।]]
08
=>
(८८५)
09
=>
[[३। तच्छीलादिषु कर्तृषु ‘सम्पृच--’ (३-२-१४२) इत्यादिना घिनुण्प्रत्यये रूपमेवम्।]]
10
=>
[[B। ‘कुर्याद् योगिनमप्येष स्फूर्जावान् परिमोहिनम्।’ भ। का। ७-१०।]]
11
=>
[[४। ‘मुहेर्खो मूर् च’ [द। उ। ३-५२]