| YouTube Channel

मुस (musa)

 
Wilson
English
मुस(इर)मुसिर r. 4th cl. (मुस्यति) To divide, to cut or break to
pieces.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मुस्
मूलधातुः:
मुस
धात्वर्थः:
खण्डने
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मुस्यति
अनुबन्धादिविशेषः:
पुषादिः
धातुप्रदीपः
Sanskrit
मुसँ मुस खण्डने
- मुस्यति अमुसत् मुसलम् मुष इत्येके (24) 114
शब्दकल्पद्रुमः
Sanskrit
मुस इर् छिदि खण्डने इति कविकल्पद्रुमः
(दिवा०-पर०-सक०-सेट् ।) मुस्यति विपक्षंचतुरः इर् अमुसत् अमोसीत् अस्मात्पुषादित्वान्नित्यं इत्यन्ये इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
मुष(स)(श)स
पु०
मुष--कलन् पृषो० अयोग्रे स्वनामख्यातेधान्यादिकण्डनसाधने पदार्थे अमरः
मुस खण्डने दि०
पर०
सक०
सेट् मुस्यति इरित् अमुसत् आभोसीत् पुषादिरयमित्यन्ये
क्षीरतरङ्गिणी
Sanskrit
मुसँ मुस खण्डने
- मुस्यति अमुसत् उणादौ मुस्तः, मुसलम् (द्र0 उ0 1106) 108
धातुवृत्तिः
Sanskrit
मुसँ मुस (अर्थः) खण्डने
( मुस्यति ) इत्यादिना दन्त्यान्त इति सर्वे आत्रेयस्तु कातन्त्रे मूधन्यान्तोयम् तथा "राघवस्यामुषः कान्तम्' इति भट्टिकाव्ये प्रयोगश्चेति पाठान्तरमप्याह (मुसलम्) इति, अस्मादेव औणादिकः कलप्रत्ययः इति वदतोरात्रेयमैत्रेयोरन्येषामप्यमुंसान्तं पठतां "भ्रमिमस्योरुच्चोपधाया'' इति मसेर्मुसलव्युत्पत्तिरनार्षेति मतम् ( मुसली ) गृह गोधिका गौरादिः मुसलेन वधमर्हति ( मुसल्यः ) दण्डादित्वाद्यत् ( मुस्ता )बाहुलकादौणादिके तनि "तितुत्र'' इतीण्निषेधः (मुस्तकम्) संज्ञायाम् कन् अर्धर्चादिः 112
कृदन्तरूपमाला
Sanskrit
1 {@“मुस खण्डने”@} 2 “आत्रेयस्तु कातन्त्रे मूर्धन्यान्तोऽयम्।
तथा ‘राघवस्यामुषः कान्ताम्’ 3 इति प्रयोगश्च, इति पाठान्तरमप्याह।” इति मा।
धा।
वृत्तौ।
मोसकः-सिका, मोसकः-सिका, मुमोसिषकः-मुमुसिषकः-षिका, मोमुसकः- सिका
मोसिता-त्री, मोसयिता-त्री, मुमोसिषिता-मुमुसिषिता-त्री, मोमु- सिता-त्री
इत्यादीनि सर्वाणि रूपाणि भौवादिककोसतिवत् 4 ज्ञेयानि।
5 6 मुसलम्-मुसली, 7 मुस्ता, 8 9 मुस्तकम्, इत्यादीनि रूपाण्यस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१२९१)
02
=>
(४-दिवादिः-१२२०। सक। सेट्। पर।)
03
=>
(भ। का। १५-१६)
04
=>
(२३४)
05
=>
[पृष्ठम्१०४२+ २६]
06
=>
[[१। ‘वृषादिभ्यश्चित्’ (द। उ। ८-१०९) इति कलप्रत्यये मुसलम् इति रूपम्। गौरादिपाठान्ङीषि मुसली इति रूपम्। मुसली = गृहगोधिका।]]
07
=>
[[२। बाहुलकात् औणादिके तन्प्रत्यये ‘तितुत्र--’ (७-२-९) इतीण्निषेधे रूपम्। अथवा, ‘व्रातालातसुतपुतचित्तनिमित्तमुस्त--’ इत्यादिना भोजेन क्तप्रत्यये निपातितः।’ इति धा। का। व्याख्यानात् (२-६६) एवं रूपमिति ज्ञेयम्।]]
08
=>
[[आ। ‘मुस्तामोष्यमसः किटिस्त्वमसमो लुठ्यन् खलानोकसः…।।’ धा। का। २। ६६।]]
09
=>
[[३। ‘संज्ञायाम्’ (४-३-११७) इति कन्प्रत्यये रूपं भवति। अर्धर्चादिगणे (२-४-३१) पाठात् पुंनपुंसकलिङ्गत्वम्। ‘भद्रं स्यान्मङ्गले हेम्नि मुस्तके करणान्त्तरे’ इति मेदिनी।]]
Stchoupak
French
मुस-
m.
n.
d'une plante.