| YouTube Channel

मुषलिका (muSalikA)

 
Wordnet
Sanskrit
Synonyms:
मुशलिका, मुषलिका, गृहगोधा, गृहगोधिका, गृहालिका, मुसली, मुषली, मुशली
noun
जन्तुविशेषः, सरीसृपकुलस्य गृहस्य कूड्ये दृश्यमानः जन्तुः।
"मुशलिका कीटकान् अत्ति।"
शब्दकल्पद्रुमः
Sanskrit
मुश(ष)लिका,
स्त्री,
(मुष + “वृषादिभ्यश्चित् ।”उणा० १०८ इति कलश्चित् स्यात् टाप् ।ततः संज्ञायां कन् अकारस्येत्वम् ।) पल्ली ।तालमूली तत्पर्य्यायः सुवहा तालपत्रिका ३गोधापदी हेमपुष्पी भूताली दीर्घ-कन्दिका मुषली तालिका तालमूलिका१० इति शब्दरत्नावली
अर्शोघ्नी ११ इतिजटाधरः
अस्या गुणाः मधुरत्वम् शीत-त्वम् वृष्यत्वम् पुष्टिबलप्रदत्वम् पिच्छिल-त्वम् कफदत्वम् पित्तदाहश्रमहरत्वञ्च ।“मुशली द्विधा प्रोक्ता श्वेता चापर-संज्ञिका ।श्वेता स्वल्पगुणोपेता अपरा रसायनी
”इति राजनिर्घण्टः
“तालमूली तु विद्वद्भिर्म्मुषली परिकीर्त्तिता ।मुषली मधुरा वृष्या वीर्य्योष्णा बृंहणी गुरुः ।तिक्ता रसायनी हन्ति गुदजान्यनिलं तथा
”इति भावप्रकाशः