| YouTube Channel

मुष (muSa)

 
Wilson
English
मुष r. 1st cl. (मोषति) r. 9th cl. (मुष्णाति) To steal, to rob, to
plunder. r. 4th cl. (मुष्यति)
1 To cut, to divide, to break.
2 To steal.
Shabdartha Kaustubha
Kannada
मुष - स्तेये (क्र्या० पर० सक० से०) मुष्णाति मुमोष अमुष्णात्
कन्नडार्थः - > ಕದಿ /ಕಳ್ಳತನ ಮಾಡು
प्रयोगाः - > "पुरीमवस्कन्द मुनीहि नन्दनं मुषान रत्नानि हरामराङ्गनाः"
उल्लेखाः - > माघ० १-५१
मुष - स्तेये (क्र्या० पर० सक० से०) मुष्णाति मुमोष अमुष्णात्
कन्नडार्थः - > ಕಸಿದುಕೋ /ಸುಲಿಗೆ ಮಾಡು
मुष - स्तेये (क्र्या० पर० सक० से०) मुष्णाति मुमोष अमुष्णात्
कन्नडार्थः - > ಓಡಿಸು /ದೂರ ಮಾಡು
प्रयोगाः - > "किं देव्याः कृतगीर्घरोषमुषितस्निग्धस्मितं तन्मुखम्"
उल्लेखाः - > रत्ना० ३-१९
मुष - स्तेये (क्र्या० पर० सक० से०) मुष्णाति मुमोष अमुष्णात्
कन्नडार्थः - > ವಂಚಿಸು /ಮೋಸಮಾಡು
प्रयोगाः - > "शीघ्रं यात यदि तन्मुषिताः स्थ मूढाः"
उल्लेखाः - > रत्ना० ४-३
मुष - स्तेये (क्र्या० पर० सक० से०) मुष्णाति मुमोष अमुष्णात्
कन्नडार्थः - > ಆವರಿಸು /ಮುಚ್ಚು
प्रयोगाः - > "सैन्यरेणुमुषितार्कदीधितिः"
उल्लेखाः - > रघु० ११-५१
मुष - स्तेये (क्र्या० पर० सक० से०) मुष्णाति मुमोष अमुष्णात्
कन्नडार्थः - > ಅತಿಶಯವಾಗಿರು /ಮೇಲಾಗಿರು /ಮೀರಿಸು
प्रयोगाः - > "मुष्णन्तमिव तेजांसि विस्तीर्णोरःस्थलं पुरः"
उल्लेखाः - > भट्टि० ९-९२
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मुष्
मूलधातुः:
मुष
धात्वर्थः:
स्तेये
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मुष्णाति
धातुप्रदीपः
Sanskrit
मुषँ मुष स्तेये
- मुष्णाति मोषिता मुमुषिषति मुषित्वा मुषितम् (14) 61
शब्दकल्पद्रुमः
Sanskrit
मुष वधे इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) मोषति इति दुर्गादासः
मुष लुण्ठने इति कविकल्पद्रुमः
(क्रा०-पर०-सक०-सेट् ।) मुष्णाति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
मुष वधे
भ्वा०
पर०
सक०
सेट् मोषति अमोषीत्
मुष छेदने दिवा०
पर०
सक०
सेट् मुष्यति इरित् अमुषत्-अमोषीत् पुषादिरयमित्यन्ये
मुष लुण्टने क्य्रा०
पर०
द्विक० सेट् मुष्णाति अमोषीत्
मुस(ष)(श)लिन् मुस(ष)(श)ल + अस्त्यर्थे इनि बलदेवेअमरः
मुस(ष)(श)ल्य
त्रि०
मुस(ष)(श)लेन वेध्यः यत् मुषलवेध्ये अमरः
क्षीरतरङ्गिणी
Sanskrit
मुषँ मुष स्तेये
- मुष्णाति रुदविद (128) इति मुषित्वा, मुमुषिषति मुषितः मुषेर्दीर्घश्च (उ0 242) इति किकन्-मूषिकः, मूषिका सृवृभूशुषिमुषिभ्यः कित् (दश0 उ0 319)-मुष्कोऽण्डः फलं [च] 57
धातुवृत्तिः
Sanskrit
मुषँ मुष (अर्थः) स्तेये
( मुष्णाति ) इत्यादि पूर्ववत्, अयं द्विकर्मक इत्युक्तं, तन्निबन्धनानि कार्याणि तत्रतत्रोक्तानीति नेह प्रतायन्ते ( मुषित्त्वा मुमुषिषति ) "रुदविदमुष'' इति क्त्वासनोर्नित्यं कित्त्वं "रलो व्युपधात्'' इति विकल्पापवादः 58
कृदन्तरूपमाला
Sanskrit
1 {@“मुष स्तेये”@} 2 3 ‘मुष हिंसार्थः’ इति भ्वादिष्वपि क्षीरस्वामी पपाठ।
अन्यैः सर्वैरष्य- पाठादस्माभिरयं लिखितः।]] ‘अयं द्विकर्मकः’ इति मा।
धा।
वृत्तिः।
मोषकः-षिका, मोषकः-षिका, 4 मुमुषिषकः-षिका, मोमुषकः-षिका
मोषिता-त्री, मोषयिता-त्री, मुमुषिषिता-त्री, मोमुषिता-त्री
इत्यादीनि सर्वाणि रूपाणि भौवादिकपोषतिवत् 5 ज्ञेयानि।
6 7 मुष्णन् 8 -ती, 9 आमोषी 10, मुषितम्-तः-तवान्, 11 मुष्टम्-ष्टः, मुषित्वा, मुष्टिः, 12 मूषिकः-षिका, 13 मुष्कः, इत्यादीनि रूपाणि अस्य धातोः प्राति- स्विकरूपाणि इति ज्ञेयम्।
सन्नन्तादुप्रत्यये मुमुषिषुः 14 इति।
प्रासङ्गिक्यः
01
=>
(१२९०)
02
=>
(९-क्र्यादिः-१५३०। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
[[६। क्त्वासनोः ‘रुदविदमुष--’ (१-२-८) इति नित्यं कित्त्वविधानात्, ‘रलो व्युप- धात्--’ (१-२-२६) इति वैकल्पिकं कित्त्वं न। तेन सन्नन्ते सर्वत्र एकमेव रूपमिति ज्ञेयम्। एवं क्त्वाप्रत्ययेऽपि मुषित्वा इत्येकमेव रूपम्।]]
05
=>
(१०२६)
06
=>
[पृष्ठम्१०४१+ २७]
07
=>
[[१। ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। णत्वम्।]]
08
=>
[[आ। ‘… पुष्णन् मुदं मृगदृशां रिपुधाम मुष्णन्।’ धा। का। ३-१२।]]
09
=>
[[२। ‘संपृचानुरुध… आमुषाभ्याहनश्च’ (३-२-१४२) इत्यादिना तच्छीलादिषु घिनुण्प्रत्यये रूपमेवम्।]]
10
=>
[[B। ‘द्रोहि खद्योतसंपर्कि नयनामोषि दुःसहम्।।’ भ। का। ७-६।]]
11
=>
[[३। ‘आदितश्च’ (७-२-१६) इत्यत्र चकारस्यानुक्तसमुच्चयार्थकत्वात् मुष्ट इत्यादीनां सिद्धिः
\n\n ‘चोरिते मुषितं मुष्टम्--’ इति स्वामी च।’ इति प्रक्रियासर्वस्वे (पु। २६)। तेन ‘मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन’ इति कालिदास (५।) प्रयोग उपपद्यते।]]
12
=>
[[४। ‘मुषेर्दीर्घश्च’ (द। उ। ३-१४) इति किकन्प्रत्ययो धातोः दीर्घश्च भवति। मुष्णातीति मूषिकः। “‘मूष स्तेये’ भौवादिकः। तस्मात् किकन्प्रत्यये दीर्घवचनमन्तरेणापि मूषिकशब्दस्य सिद्धत्वात् दीर्घवचनं स्पष्टार्थम्। एवं मूषेर्ण्वुलि मूषकः इत्यपि साधुः। इति श्वेतवनवासी” इति द। उ। टिप्पन्याम्।]]
13
=>
[[५। ‘सृवृभूशुषिमुषिभ्यः कित्’ (द। उ। ३-१९) इति कप्रत्ययः किच्च भवति। मुष्कः = चौरो, मांसलो वा। ‘अण्डः फलं च’ इति क्षीरस्वामी।]]
14
=>
[[C। ‘किं मुमुषिषुवद् यात द्विषो नापचिकीर्षया।।’ भ। का। ७-९९।]]