| YouTube Channel

मुर्वी (murvI)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मुर्व्
मूलधातुः:
मुर्वी
धात्वर्थः:
बन्धने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मूर्वति
अनुबन्धादिविशेषः:
ईदित्
धातुप्रदीपः
Sanskrit
मुर्वीँ मुर्वीं बन्धने
- मूर्वति मूर्वा ।तस्य विकारो मौर्वी। मूः, मुरौ मूर्णम् ।। 575 ।।
क्षीरतरङ्गिणी
Sanskrit
मुर्वीँ मुर्वी बन्धने
- मूर्वति मूर्वा तृणम्, यद्विकारो मौर्वी मूः मूर्णः 561
कृदन्तरूपमाला
Sanskrit
1 {@“मुर्वी बन्धने”@} 2 मूर्वकः-र्विका, मूर्वकः-र्विका, मुमूर्विषकः-षिका, मोमूर्वकः-र्विका
मूर्विता-त्री, मूर्वयिता-त्री, मुमूर्विषिता-त्री, मोमूर्विता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकगूर्वतिवत् 3 ज्ञेयानि।
4 मूर्वा, 5 मौर्वी, मूः-मुरौ-मुरः, इमानि रूपाणि अस्य धातोः विशेषः।
शतरि 6 मूर्वन् इति।
प्रासङ्गिक्यः
01
=>
(१२८९)
02
=>
(१-भ्वादिः-५७५। अक। सेट्। पर।)
03
=>
(४१६)
04
=>
[[४। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्ययः।]]
05
=>
[[५। मूर्वाया विकार इत्यर्थे ‘तस्य विकारः’ (४-३-१३४) इत्यणि ङीपि रूपमेवम्।]]
06
=>
[[B। ‘दुदूर्विषून् धूर्वितुमेव गूर्वणं मूर्वन्तमापूर्वितपर्वताध्वरम्।।’ धा। का। १-७३।]]