| YouTube Channel

मुरारिः (murAriH)

 
Apte Hindi
Hindi
मुरारिः
पुं*
मुर-अरिः -
कृष्ण का विशेषण
मुरारिः
पुं*
मुर-अरिः -
‘अनर्घराघव’ नाटक का प्रणेता
मुरारिः
पुं*
- -
अनर्घराघव नाटक का रचयिता।रत्नाकर कवि ने (जो नवीं शताब्दी में हुआ) अपने हरविजय ३८/६७ में उल्लेख किया है।अतः इसे नवीं शताब्दी से पूर्व का ही समझना चाहिए।
Wordnet
Sanskrit
Synonyms:
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
noun
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
शब्दकल्पद्रुमः
Sanskrit
मुरारिः,
पुं,
(पुरस्यारिः ।) श्रीकृष्णः अस्यव्युत्पत्तिर्यथा, --“मुरः क्लेशे सन्तापे कर्म्मभोगे कर्म्मिणाम् ।दैत्यभेदेऽप्यरिस्तेषां मुरारिस्तेन कीर्त्तितः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः
अस्य स्वरूपं यथा, --श्रीनारद उवाच ।“कोऽसौ मुरारिर्देवर्षे ! देवो यक्षो नु किं नरः ।दैत्यो वा राक्षसो वापि पार्थिवो वा तदुच्यताम्
”पुलस्त्य उवाव ।“योऽसौ रजःसत्त्वमायागुणवांश्च तमोमयः ।निर्गणः सर्व्वगो व्यापी मुरारिर्म्मधुसूदनः
”श्रीनारद उवाच ।“योऽसौ मुर इति ख्यातः कस्य पुत्त्रश्च गीयते ।कथञ्च निहतः संख्ये विष्णुना तद्वदस्व मे
”पुलस्त्य उवाच ।“श्रूयतां कथयिष्यामि मुरासुरनिवर्हणम् ।विचित्रमिदमाख्यानं पुण्यं पापप्रणाशनम्
कश्यपस्यौरसः पुत्त्रो मुरो नाम महाबलः ।स ददर्श रणे शम्भुं दितिपुत्त्रोऽसुरोत्तमः
ततः मरणाद् भीतस्तप्त्वा वर्षगणान् बहून् ।आराधयामास विभुं ब्रह्माणमपराजितम्
ततोऽस्य तुष्टो वरदः प्राह वत्स ! वरं वृणु ।स वव्रे तदा दैत्यो वरमेनं पितामहात्
यं यं करतलेनाहं स्पृशेयं समरे विभो ! ।स मद्धस्तसंस्पृष्टस्त्वमरोऽपि म्रियत्वज !
बाढमुक्त्वा भगवान् ब्रह्मा लोकपितामहः ।ततोऽभ्यगान्महातेजा मुरः सुरगिरिं बली ।जगाम धर्म्मराजानं विजेतुं दण्डपाणिनम्
”मुर उवाच ।“यम ! प्रजासंयमनान्निवृत्तिं कर्त्तुमर्हसि ।नो चेत्तवाद्य छित्त्वाहं मूर्द्ध्वानं पातये भुवि
तमाह धर्म्मराड्वाक्यं यदि मां संयमेद्भवान् ।गोपितासि पुरा सत्यं करिष्ये वचनं तव
मुरस्तमाह भवतः कः संयन्ता वदस्व माम् ।अहं तञ्च पराजित्य वारयामि संशयः
यमस्तं प्राह मां विष्णुर्देवश्चक्रगदाधरः ।श्वेतद्बीपनिवासी यः मां संयमतेऽव्ययः
इत्येव मुक्तो वत्तनं दुग्धाब्धिमगमन्मुरः
तमागतं प्राह मुने ! मधुघ्नःप्राप्तोऽसि केनासुर ! कारणेन ।स प्राह युद्धं सह वै त्वयाद्यतं प्राह भूयः सुरशत्रुहन्ता
यदीह मां योद्धुमुपागतोऽसितत् कम्पते ते हृदयं किमर्थम् ।ज्वरातुरस्येव मुहुर्मुहुर्व्वैतन्नैव योत्स्ये सह कातरेण
इत्येवमुक्तो मधुसूदनेनमुरस्तदा स्वे हृदये स्वहस्तम् ।कथं नु कम्पेति मुहुस्तदोक्त्वानिपातयामास विपन्नबुद्धिः
हरिश्च चक्रं मृदुलाघवेनमुमोच तत्तस्य शिरस्तु शत्रोः ।चिच्छेद देवास्तु गतव्यथाभवन्देवं प्रशंसन्ति पद्मनाभम् ।इतः प्रसिद्धं समुपाजगाममुरारिरित्येव हरिर्महात्मा
”इति वामने ५७ ५८ अध्यायौ
*
अनर्घराघवग्रन्थकर्त्ता यथा ‘अस्ति मौद्गल्य-गोत्रसमुद्भूतस्य महाकवेर्भट्टश्रीवर्द्धमानात्मजस्यतन्तुमतीहृदयनन्दनस्य मुरारिनामधेयस्य कवेःकृतिरनर्घराघवं नाम नाटकं तत्प्रयुञ्जानाःसामाजिकानुपास्महे ।’ इति तत्कृतनाटक-गद्यम्