| YouTube Channel

मुम्रोचिषकः-मुम्रुचिषकः-षिका (mumrociSakaH-mumruciSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“म्रुचु गत्यर्थः”@} 2 म्रोचकः-चिका, म्रोचकः-चिका, मुम्रोचिषकः-मुम्रुचिषकः-षिका, मोम्रुचकः-चिका
म्रोचिता-त्री, म्रोचयिता-त्री, मुम्रोचिषिता-मुम्रुचिषिता-त्री, मोम्रुचिता-त्री
इत्यादिकानि समस्तान्यपि रूपाणि भौवादिकग्रोचतिवत् 3 ज्ञेयानि।
4 म्रुक्तः-म्रुक्तवान्।
प्रासङ्गिक्यः
01
=>
(१३२३)
02
=>
(१-भ्वादिः-१९५। सक। सेट्। पर।)
03
=>
(४४३)
04
=>
[[२। उदित्त्वेन क्त्वायामिड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इती- ण्निषेधः। माधवधातुवृत्तौ तु “भावादिकर्मणोः ‘उदुपधात्--’ (१-२-२१) इति कित्त्वविकल्पनात् ‘म्रुचितमनेन म्रोचितमनेन’ इत्यादि।” इत्युक्तम्। अत्र, ‘निषेधाश्च बलीयांसः’ (परि। १२२) इति न्यायेन, पुरस्तादि- ण्निषेधकाण्डारम्भसामर्थ्यात्, ‘उदुपधात्--’ (१-२-२१) इति सूत्रे उदिद्भिन्न- स्योदुपधस्य धातोरेव सर्वैरपि व्याख्यातृभिः उदाहरणप्रत्युदाहरणसमये उपादानाच्च, अत्रापि इण्निषेध एव भावादिकर्मणोः निष्ठायां प्रामाणिक इति प्रतिभाति।]]