| YouTube Channel

मुमोटिषकः-मुमुटिषकः-षिका (mumoTiSakaH-mumuTiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मुट प्रमर्दने”@} 2 ‘प्रमर्दने चाक्षेपे मुटेद् आद्ये तु मोटति।।’ 3 इति देवः।
दुर्गसंमतः पाठोऽयम् इति क्षीरस्वामी।
“--‘मुड’ इति धनपालः।
‘पुड’ इति…शाकटायनः।
क्षीरस्वामी तु द्वावपि इदितौ पपाठ।
मैत्रेयस्तु अमुं टान्तमेव पठित्वा…” इति मा।
धा।
वृत्तिः।
दैवश्लोकात् 4 मा।
धा।
वृत्तौ ‘मुट सञ्चूर्णने’ 5 इत्यत्र ‘मोटति इति मर्दने शपि’ इत्युक्तत्वाच्च अयं धातुः स्वतन्त्र इति ज्ञायते।
युक्तायुक्तत्वे त्वत्र सूरयः प्रमाणम्।
‘पुड प्रुड’ इति अमुं केचित् पठन्ति।
सि।
कौमुद्यादिषु पठितोऽयम्।
मोटकः-टिका, मोटकः-टिका, मुमोटिषकः-मुमुटिषकः-षिका, मोमुटकः- टिका
इत्यादीनि रूपाणि सर्वाणि भौवादिककोचतिवत् 6 ज्ञेयानि।
प्रमुटितः-प्रमोटितः, आमोटनम्, इतीमानि रूपाण्यधिकान्यत्रेति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१२७८)
02
=>
(१-भ्वादिः-सक। सेट्। पर।)
03
=>
(श्लो। ७१)
04
=>
(श्लो। ७१)
05
=>
(चुरादौ)
06
=>
(२००)