मुमूर्षु (mumUrSu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishमुमूर्षु [mumūrṣu], Being on the point of death, about to die.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishShabdartha Kaustubha
Kannadaमुमूर्षु
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಪ್ರಾಣಬಿಡಲು ಇಚ್ಚಿಸುವ /ಜೀವವನ್ನು ತ್ಯಜಿಸಲು ಆಸೆಪಡುವ
निष्पत्तिः - > मृङ् (प्रानत्यागे) + सन् - "उः" (३-२-१६८)
व्युत्पत्तिः - > मर्तुमिच्छुः
Lanman
EnglishWordnet
Sanskrit मुमूर्षु
मर्तुं कामयते सः।
"मुमूर्षुणा महात्मना अन्नजलादिस्वीकरणं त्यक्तम्।"
Sanskrit Tibetan
Tibetanchi kha ma
मुमूर्षु
shi ka ma
मुमूर्षु
शब्दकल्पद्रुमः
Sanskritमुमूर्षुः त्रि, (मर्त्तुमिच्छुः । मृ + सन् + उः ।)आसन्नमृत्युः । (यथा श्रीमद्भागवते । ७ । ८ । ११ ।“व्यक्तं त्वं मर्त्तुकामोऽसि योऽतिमात्रं विकत्थसे ।मुमूर्षूणां हि मन्दात्मन् ! ननु स्युर्विक्लवागिरः ॥
”)अथ मुमूर्षुकृत्यानि । हारीतः ।‘शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः ।स वै खरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति ॥
’शूद्रान्नं शूद्रस्वामिकान्नम् । तद्दत्तमपि भोजन-काले तद्गृहावस्थितं यत् तदपि शूद्रान्नम् ।तदाहाङ्गिराः ।‘शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि ।निवृत्तेन न भोक्तव्यं शूद्रान्नं तदपि स्मृतम् ॥
’अपिशब्दात् साक्षात् तद्दत्तघृततण्डुलादि न तुतद्दत्तकपर्दकादिना क्रीतमपि । स्वगृहागते पुन-रङ्गिराः ।‘यथायतस्ततो ह्यापः शुद्धिं यान्ति नदीं गताः ।शूद्राद्बिप्रगृहेष्वन्नं प्रविष्टन्तु सदा शुचि ॥
’प्रविष्टं सत्त्वापादकप्रतिग्रहादिना इति शेषः ।अतएव पराशरः ।‘तावद्भवति शूद्रान्नं यावन्न स्पृशति द्बिजः ।द्बिजातिकरसंस्पृष्टं सर्व्वं तद्धविरुच्यते ॥
’स्पृशति प्रतिगृह्णाति इति कल्पतरुः ॥
तच्चसंप्रोक्ष्य ग्राह्यमाह विष्णुपुराणम् ।‘संप्रोक्षयित्वा गृह्णीयाच्छूद्रान्नं गृहमागतम् ।’तच्च पात्रान्तरे ग्राह्यमाह अङ्गिराः ।‘स्वपात्रे यत्तु विन्यस्तं शूद्रो यच्छति नित्यशः ।पात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहमागतम् ॥
’एतेन स्वगृहमागतस्यैव शुद्धत्वम् ।तद्गृहगतस्य शूद्रान्नदोषभागित्वं प्रतीयते ।ततश्चैतादृगपि मुमूर्षुणा सर्व्वथा शूद्रान्नं नभोक्तव्यम् ॥
* ॥
पूजारत्नाकरे ।‘शालग्रामशिला यत्र तत्र सन्निहितो हरिः ।तत्सन्निधौ त्यजेत् प्राणान् याति विष्णोः परंपदम् ॥
’लिङ्गपुराणे ।‘शालग्रामसमीपे तु क्रोशमात्रं समन्ततः ।कीकटेऽपि मृतो याति वैकुण्ठभवनं नरः ॥
’कीकटो मगधः ॥
* ॥
वैष्णवामृते व्यासः ।‘तुलसीकानने जन्तोर्यदि मृत्युर्भवेत् क्वचित् ।स निर्भर्त्स्य यमं पापी लीलयैव हरिं विशेत् ॥
प्रयाणकाले यस्यास्ये दीयते तुलसीदलम् ।निर्व्वाणं याति पक्षीन्द्र ! पापकोटियुतोऽपि सः ॥
’कूर्म्मपुराणम् ।‘गङ्गायाञ्च जले मोक्षो वाराणस्यां जले स्थले ।जले स्थले चान्तरीक्षे गङ्गासागरसङ्गमे ॥
’स्कान्दे ।‘गङ्गायां त्यजतः प्राणान् कथयामि वरानने ! ।कर्णे तत् परमं ब्रह्म ददामि मामकं पदम् ॥
’तथा ।‘तीराद्गव्यूतिमात्रन्तु परितः क्षेत्रमुच्यते ।अत्र दानं जपो होमो गङ्गायां नात्र संशयः ॥
अत्रस्थास्त्रिदिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥
’गव्यूतिः क्रोशयुगम् । तीर्थचिन्तामणौ ब्रह्म-पुराणम् ।‘अत्र दूरे समीपे च सदृशं योजनद्बयम् ।गङ्गायां मरणेनेह नात्र कार्य्या विचारणा ॥
’ * ॥
एवं गङ्गादिमरणेन प्राप्तब्रह्मलोकस्याप्यौर्द्ध-देहिकी क्रिया तदधिकारिणा कर्त्तव्या नित्य-त्वात् । तथा च श्रीमद्भागवते ।‘कृष्ण एवं भगवति मनोवाक्दृष्टिवृत्तिभिः ।आत्मन्यात्मानमावेश्य सोऽन्तःश्वासमुपारमत् ॥
संपद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले ।सर्व्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥
तस्य निर्हरणादीनि संपरेतस्य भार्गव ! ।युधिष्ठिरः कारयित्वा मुहूर्त्तं दुःखितोऽभवत् ॥
’कृष्णे आत्मनि परमात्मनि आत्मानं स्वीयात्मानंनिवेश्य एकीकृत्य स भीष्मः उपारमत् मुक्तिंगतवान् । निष्कले निरुपाधौ ब्रह्मणि संपद्य-मानं मिलितं आज्ञाय आलक्ष्य तस्य भीष्मस्यनिर्हरणादीनि संस्कारादीनि संपरेतस्य सम्यक्परेतस्य मुक्तस्यापि । भार्गवेति शौनकस्यसम्बोधनम् । एवञ्च एतेषामपि तत्तत्कर्म्मणितत्तद्वचनोपात्तप्रेतपदस्य पितृपदस्य च मन्त्रा-दिषु यथायथं वाचनिकत्वात् प्रयोगः सङ्गच्छते ।‘आसन्नमृत्युना देया गौः सवत्सा च पूर्व्ववत् ।तदभावे च गौरेका नरकोद्धारणाय वै ॥
तदा यदि न शक्नोति दातुं वैतरणीञ्च गाम् ।शक्तोऽन्योऽरुक् तदा दत्त्वा श्रेयो दद्यान्-मृतंस्य च ॥
’पूर्व्ववद्धेमशृङ्गादिना ।अत्र मृतस्य चेति श्रवणात् एकादशाहेऽपिवैतरणीदानाचारः । वनपर्व्वणि ।‘सार्थः प्रवसतो मित्रं भार्य्या मित्रं गृहे सतः ।आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥
’वराहपुराणे ।“व्यतीपातोऽथ संक्रान्तिस्तथैव ग्रहणं रवेः ।पुण्यकालास्तदा सर्व्वे यदा मृत्युरुपस्थितः ॥
गोभूतिलहिरण्यादि दत्तमक्षयतामियात् ॥
”निरवकाशत्वादत्र मलमासादिदोषो नास्तिसूतकमपि न । तथा च शुद्धिरत्नाकरे दक्षः ।“सुस्थकाले त्विदं सर्व्वं सूतकं परिकीर्त्तितम् ।आपद्गतस्य सर्व्वस्य सूतकेऽपि न सूतकम् ॥
”इति शुद्धितत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
