| YouTube Channel

मुमुहिषकः-मुमोहिषकः-मुमुक्षकः-क्षिका (mumuhiSakaH-mumohiSakaH-mumukSakaH-kSikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मुह वैचित्त्ये”@} 2 रधादिः।
वैचित्त्यम् = विचित्तता, अविवेकः।
मोहकः-हिका, मोहकः-हिका, 3 मुमुहिषकः-मुमोहिषकः-मुमुक्षकः-क्षिका, 4 मोमुहकः-हिका
मोहिता-त्री, 5 मोग्धा-ध्री, मोढा-ढ्री, मोहयिता-त्री, मुमोहिषिता-मुमुहिषिता-मुमुक्षिता-त्री, मोमुहिता-त्री
मुह्यन्-न्ती, 6 मोहयन् परिमोहयन्-न्ती, 7 परिमोहयमाणः, इत्यादीनि सर्वाण्यपि प्रातिस्विकरूपाणि विना दैवादिकद्रुह्यतिवत् 8 ज्ञेयानि।
9 परिमोही, 10 क्विपि उन्मुक्, उन्मुट्, 11 इति खप्रत्यये, धातोः ‘मूर्’ इत्यादेशे रूपमेवम्।]] मूर्खः इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२९३)
02
=>
(४-दिवादिः-११९८। अक। वेट्। पर।)
03
=>
[[४। ‘रधादिभ्यश्च’ (७-२-४५) इति इड्विकल्पः। इट्पक्षे, ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। इडभावपक्षे, ‘वा द्रुहमुह--’ (८-२-३३) इति घत्वपक्षे, चर्त्वे षत्वे मुमुक्षकः इति रूपम्। इडभावपक्ष एव, ढत्वपक्षे, ‘षढोः कः सि’ (८-२-४१) इति कत्वेऽपि मुमुक्षक इति रूपं तुल्यमेव। एवं सन्नन्ते सर्वत्र रूपत्रय(चतुष्टय)स्य निष्पत्तिर्ज्ञेया।]]
04
=>
[पृष्ठम्१०४३+ ३१]
05
=>
[[१। रधादित्वादिड्विकल्पः। इडभावपक्षे घत्वविकल्पः। तेन रूपत्रयं तृजादिषु सर्वत्र ज्ञेयम्।]]
06
=>
[[२। मोहस्य चित्तवत्कर्तृकत्वात् मोहयन् इत्यत्र, ‘अणावकर्मकात् चित्तवत्कर्तृ- कात्’ (१-३-८८) इति ण्यन्ताच्छतैव। परिमोहयन् परिमोहयमाणः इत्यत्र तु ‘न पादम्याङ्यमाङ्यसपरिमुह--’ (१-३-८९) इति परस्मैपद निषेधात् चित्त- वत्कर्तृकत्वेऽकर्मकत्वेऽपि ‘णिचश्च’ (१-३-७४) इति उभयपदं भवतीति ज्ञेयम्।]]
07
=>
[[आ। ‘परिमोहयमाणाभी राक्षसीभिः समावृताः।।’ भ। का। ८-६३।]]
08
=>
(८८५)
09
=>
[[३। तच्छीलादिषु कर्तृषु ‘सम्पृच--’ (३-२-१४२) इत्यादिना घिनुण्प्रत्यये रूपमेवम्।]]
10
=>
[[B। ‘कुर्याद् योगिनमप्येष स्फूर्जावान् परिमोहिनम्।’ भ। का। ७-१०।]]
11
=>
[[४। ‘मुहेर्खो मूर् च’ [द। उ। ३-५२]