| YouTube Channel

मुमुञ्चिषकः-षिका (mumuJciSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मुचि कल्कने”@} 2 ‘कल्कने मुञ्चते मुञ्चेः मोक्षे मुञ्चति मुञ्चते।’ 3 इति देवः।
‘मुच--’ इति चन्द्रसंमतः पाठः।
‘कल्कनम् = दम्भः, क्वथनं च।’ इति क्षीरतरङ्गिणी।
‘शाठ्यम्’ इति मैत्रेयः।
“कत्थनं चेति स्वामी।” इति मा।
धा।
वृत्तिः।
‘कथनम् इत्यन्ये।’ इति सिद्धान्तकौमुदी।
एवञ्च बह्वर्थकत्वं कल्कनशब्दस्येति ज्ञेयम्।
मुञ्चकः-ञ्चिका, मुञ्चकः-ञ्चिका, मुमुञ्चिषकः-षिका, मोमुञ्चकः-ञ्चिका
मुञ्चिता-त्री, मुञ्चयिता-त्री, मुमुञ्चिषिता-त्री, मोमुञ्चिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना भौवादिककुण्ठतिवत् 4 ज्ञेयानि।
अस्यात्मनेपदित्वात् शानचि-मुञ्चमानः, मुञ्चिष्यमाणः, मुञ्चयमानः, मुञ्चयिष्यमाणः, मुमुञ्चिषमाणः, मुमुञ्चिषिष्यमाणः, मोमुञ्च्यमानः, मोमुञ्चिष्यमाणः
इति रूपाणि यथायथं सम्भवन्तीति विशेषः।
ल्युटि- 5 मुञ्चनम्।
प्रासङ्गिक्यः
01
=>
(१२७४)
02
=>
(१-भ्वादिः-१७२। अक। सेट्। आत्म।)
03
=>
(श्लो। ४७)
04
=>
(२०९)
05
=>
[[आ। ‘अमुञ्चनैर्मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैः शुभार्जकैः।’ धा। का। १-२४।]]