| YouTube Channel

मुनिपुष्प (munipuSpa)

 
शब्दकल्पद्रुमः
Sanskrit
मुनिपुष्पं,
क्ली,
(मुनिद्रुम इति “ठाजा दावूर्द्ध्वंद्वितीयादचः ।” ८३ इत्यत्र “विनापिप्रत्ययेन पूर्व्वोत्तरपदयोर्विभाषालोपो वक्तव्यः ।”इति काशिकोक्तेः द्रुम इत्यस्य लोपे मुनिः तस्यपुष्पम् ।) वकपुष्पम्
(यथा, तिथितत्त्वे ।“विहाय सर्व्वपुष्पाणि मुनिपुष्पेण केशवम् ।कार्त्तिके योऽर्च्चयेद्भक्त्या वाजिमेधफलं लभेत्
”वकवृक्षे,
पुं,
तत्पर्य्यायो यथा, --“अथागस्त्यो वङ्गसेनो मुनिपुष्पो मुनिद्रुमः ।”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)
वाचस्पत्यम्
Sanskrit
मुनिपुष्प
न०
मुनिद्रुमस्य पुष्पं भौमो भीमसेनवदुत्तरपदलोपः वकपुष्पे