| YouTube Channel

मुद्रालिपिः (mudrAlipiH)

 
शब्दकल्पद्रुमः
Sanskrit
मुद्रालिपिः,
स्त्री,
(मुद्रया लिपिः ।) पञ्चधा-लिप्यन्तर्गतलिपिविशेषः छापार अक्षर इतिभाषा यथा, --“मुद्रालिपिःशिल्पलिपिर्लिपिर्लेखनिसम्भवा ।गुण्डिकाघुणसम्भूता लिपयः पञ्चधा स्मृताः ।एताभिर्लिपिभिर्व्याप्ता धरित्री शुभदा हर !
”इति वाराहीतन्त्रम्
अस्याः पाठ्यत्वं धार्य्यत्वञ्च यथा, --“लेखन्या लिखितं विप्रैर्मुद्राभिरङ्कितञ्च यत् ।शिल्पादिनिर्म्मतं यच्च पाठ्यं धार्य्यञ्च सर्व्वदा
”इति खड्गमालातन्त्रम्