| YouTube Channel

मुद्राङ्कितः (mudrAGkitaH)

 
शब्दकल्पद्रुमः
Sanskrit
मुद्राङ्कितः, त्रि, (मुद्रया अङ्कितः ।) मुद्रयाचिह्नितः छापाकरा मोहरकरा इत्यादिभाषा यथा, --“धाता विश्वविसृष्टिमात्रनिरतो देवोऽपि गौरी-भुजा-श्लेषानन्दविघूर्णमाननयनो दक्षाध्वरध्वंसकृत् ।दैत्यारिः कमलाकपोलमकरीमुद्राङ्कितोरःस्थलःशेतेऽब्धावितरेषु जन्तुषु पुनः का नाम शान्तेःकथा
”इति प्रबोधचन्द्रोदयनाटके अङ्कः