| YouTube Channel

मुद्गार्द्रवटः (mudgArdravaTaH)

 
शब्दकल्पद्रुमः
Sanskrit
मुद्गार्द्रवटः,
पुं,
(मुद्गेनार्द्रः वटः ।) वटक-विशेषः आदावडा इति भाषा यथा, --“मुद्गपिष्टीविरचितान् वटकांस्तैलपाचितान् ।हस्तेन चूर्णयेत् सम्यक् तस्मिंश्चूर्णे विनिक्षिपेत्
भृष्टं हिङ्ग्वार्द्रकं सूक्ष्मं मरिचं जीरकं तथा ।निम्बूरसं यवानीञ्च युक्त्या सर्व्वं विमिश्रयेत्
मुद्गपिष्टीं पचेत् सम्यक् स्थाल्यामङ्गारकोपरि ।तस्यास्तु गोलकं कुर्य्यात्तन्मध्ये पूरणं क्षिपेत्
तैले तान् गोलकान् पक्त्वा क्वथितायां निम-ज्जयेत् ।गोलकाः पाचकैः प्रोक्तास्ते त्वार्द्रकवटा अपि
”अस्य गुणाः यथा, भावप्रकाशे ।“मुद्गार्द्रकवटा रुच्या लघवो बलकारक्राः ।दीपनास्तर्पणाः पथ्यास्त्रिदोषेषु प्रपूजिताः