| YouTube Channel

मुद्गमोदकः (mudgamodakaH)

 
शब्दकल्पद्रुमः
Sanskrit
मुद्गमोदकः,
पुं,
(मुद्गेन साधितो मोदकः ।) मोदक-विशेषः मतिचुर इति भाषा यथा, --“मुद्गानां धूमसीं सम्यग्घोलयेन्निर्म्मलाम्बुना ।कटाहस्थघृतस्योर्द्ध्वं झर्झरं स्थापयेत्ततः
धूमसीन्तु द्रवीभूतां प्रक्षिपेत् झर्झरोपरि ।पतन्ति बिन्दवस्तस्मात्तान् सुपक्वान् समुद्धरेत् ।सितापाकेन संयोज्य कुर्य्यात् युक्तेन भादकान्
”अस्य गुणाः यथा, भावप्रकाशे ।“लघुर्ग्राही त्रिदोषघ्नः स्वादुः शीतो रुचिप्रदः ।चक्षुष्यो ज्वरहृत् बल्यस्तर्पणो मुद्गमोदकः